________________
योगदृष्टिसमुच्चयः
अद्वेषो जिज्ञासा शुश्रूषा श्रवणबोधमीमांसाः । परिशुद्धा प्रतिपत्तिः प्रवृत्तिरष्टात्मिका तत्त्वे ॥
एवं क्रमेणैषा=सद्दृष्टिः सतां मुनीनां भगवत्पतञ्जलि भदन्त भास्करबन्धुभगवद्दत्तादीनां योगिनामित्यर्थः । मता = इष्टा । एतत्साकल्यं च प्रतिदृष्टि दर्शयिष्यामः ॥ १६ ॥
साम्प्रतं दृष्टिशब्दार्थाभिधानायाह
सच्छ्रद्धासङ्गतो बोधो दृष्टिरित्यभिधीयते । असत्प्रवृत्तिव्याघातात्सत्प्रवृत्तिपदावहः ॥१७॥
१३
सच्छ्रद्धासङ्गतो बोधः इत्यनेनासच्छ्रद्धाव्यवच्छेदमाह । असच्छ्रद्धा चेह शास्त्रबाह्या स्वाभिप्रायतस्तथाविधासदूहात्मिका गृह्यते, तद्वैकल्यात् सच्छ्रद्धासङ्गतः इति । एवंभूतो बोधो = अवगमः । किमित्याह - दृष्टिरित्यभिधीयते दर्शनं दृष्टिरिति कृत्वा निष्प्रत्यपायतया । फलत एतामेवाह-असत्प्रवृत्तिव्याघातात् इति तथा श्राद्धतया शास्त्रविरुद्धप्रवृत्तिव्याघातेन । किमित्याहसत्प्रवृत्तिपदावहः इति । शास्त्राऽविरुद्धप्रवृत्तिपदावहोऽवेद्यसंवेद्यपरित्यागेन वेद्यसंवेद्यपदप्रापक इत्यर्थः । वेद्यसंवेद्यपदरूपत्वेऽपि स्थिरादिदृष्टीनां सामान्यलक्षणत्वादस्यैवमप्यदोष इति । अथवा सत्प्रवृत्तिपदं परमार्थतः शैलेशीपदमिति तदावहत्वेन न कश्चिद्दोष इति ॥ १७ ॥
एष च परिस्थूरभेदादष्टधा, अन्यथा बहुभेदेत्यभिधातुमाह
इयं चावरणापायभेदादष्टविधा स्मृता । सामान्येन विशेषास्तु भूयांसः सूक्ष्मभेदतः ॥ १८ ॥
इयम्=अनन्ततरोदितलक्षणा दृष्टि: । आवरणापायभेदाद्=आवरणापगमभेदेन परिस्थूरनीत्या । अष्टविधा स्मृता पूर्वाचार्यै: सामान्येन= सूक्ष्मेक्षिकामनादृत्य । विशेषास्तु भेदाः पुनः सद्दृष्टेर्भूयांसो=अतिबहवः सूक्ष्म
१४
योगदृष्टिसंग्रह
भेदतो अनन्तभेदत्वाद्दर्शनादीनां मिथः षट्स्थानपतितत्वाभिधानादिति ॥१८॥ इह च दृष्टिसमुच्चये
प्रतिपातयुताश्चाद्याश्चतस्त्रो नोत्तरास्तथा ।
सापाया अपि चैतास्तत्प्रतिपातेन नेतराः ॥१९॥
प्रतिपातयुता=भ्रंशोपेताः । आद्याश्चतस्त्रो दृष्टयो मित्रादिरूपाः । एता अपि च प्रतिपातयुता अपि तथाकर्मवैचित्र्यात्, न तु प्रतिपातयुता एव ताभ्यस्तदुत्तरभावादिति । नोतरास्तथा =न स्थिराद्यास्तेन प्रकारेण प्रतिपातयुताः । यत एवं सापाया अपि दुर्गतिहेतुत्वेन, एतास्ता = एता एव । कथमित्याह प्रतिपातेन = भ्रंशेन, नेतरा=न स्थिराद्याः सापाया इति आह कथं श्रेणिकादीनामेतदप्रतिपातादपाय: ? उच्यते एतदभावोपात्तकर्मसामर्थ्येन । अत एवोक्तं प्रतिपातेन तु सम्भवमात्रमधिकृत्य सापाया अपि । तथापि प्रायोवृत्तिविषयत्वात्सूत्रस्यैवमुपन्यासः । अथवा सद्दृष्ट्यघाते सत्यप्यपायोऽप्यनपाय एव वज्रतन्दुलवत्पाकेन तदाऽऽशयस्य कायदुःखभावेऽपि विक्रियाऽनुपपत्तेरित्येवमुपन्यासः । योगाचार्या एवात्र प्रमाणमिति । अतः प्रतिपातेन नेतरा इति स्थितम् ॥१९॥
इहापि -
प्रयाणभङ्गाभावेन निशि स्वापसमः पुनः । विघातो दिव्यभवतश्चरणस्योपजायते ॥२०॥
प्रयाणभङ्गाभावेन इति कान्यकुब्जादिगमनेऽनवरतप्रयाणकगमनेनापि । निशि=रात्रौ । स्वापसमः पुनः = स्वापतुल्यस्तु । किमित्याह-विघातः = प्रतिबन्धः, दिव्यभवतः = देवजन्मनः सकाशात्, चरणस्य = चारित्रस्य, उपजायते तथाविधौदयिकभावयोगेन, तदभावे तु पुनस्तत्रैव प्रवृत्तिः, स्वापविगमेऽनवरतप्रयाणे च प्रवृत्तकान्यकुब्जगन्तृगमनप्रवृत्तिवत् ॥२०॥