________________
१२
योगदृष्टिसमुच्चयः बलायां, दीपप्रभोपमा दीप्रायाम् । तथाविधप्रकाशमात्रादिनेह साधर्म्यम् ।
(यदाह)
मित्रायां बोधस्तृणाग्निकणसदृशो भवति, न तत्त्वतोऽभीष्टकार्यक्षमः, सम्यक्प्रयोगकालं यावदनवस्थानादल्पवीर्यतया पटुस्मृतिबीजसंस्काराऽऽधानाऽनुपपत्तेः, ततश्च विकलप्रयोगभावाद्भावतो वन्दनादिकार्याऽयोगादिति ।
तारायां तु बोधो गोमयाग्निकणसदृशः । अयमप्येवंकल्प एव, तत्त्वतो विशिष्टस्थितिवीर्यविकलत्वात्, अतोऽपि प्रयोगकाले स्मृतिपाटवासिद्धेः, तदभावे प्रयोगवैकल्यात्, ततस्तथा तत्कार्याभावादिति ।
बलायामप्येष काष्ठाग्निकणकल्पो विशिष्ट ईषदुक्तबोधद्वयात्, तद्भवतोऽत्र मनाक् स्थितिवीर्ये, अत: पटुप्राया स्मृतिरिह प्रयोगसमये तद्भावे चार्थप्रयोग-मात्रप्रीत्या यत्नलेशभावादिति ।
दीप्रायां त्वेष दीपप्रभातुल्यो विशिष्टतर उक्तबोधत्रयात्, अतोऽत्रोदने स्थितिवीर्ये तत्पव्यपि प्रयोगसमये स्मृतिः एवं भवतोऽप्यत्र द्रव्यप्रयोगो वन्दनादौ तथाभक्तितो यत्नभेदप्रवृत्तेरिति प्रथमगुणस्थानकप्रकर्ष एतावानिति समयविदः ।
स्थिरा तु भिन्नग्रन्थेरेव भवति तद्बोधो रत्नभासमानस्तद्भावोऽप्रतिपाती प्रवर्धमानो निरपायो नापरपरितापकृत्परितोषहेतुः प्रायेण प्रणिधानादियोनिरिति ।
कान्तायां तु ताराभासमान एषः । अतः स्थित एव प्रकृत्या निरतिचारमात्राऽनुष्ठानं शुद्धोपयोगानुसारि विशिष्टाऽप्रमादसचिवं विनियोगप्रधानगम्भीरोदाराऽऽशयमिति ।
प्रभाया पुनरर्कभासमानो बोधः, स ध्यानहेतुरेव सर्वदा, नेह प्रायो विकल्पाऽवसरः, प्रशमसारं सुखमिह । अकिञ्चित्कराण्यत्रान्यशास्त्राणि, समाधिनिष्ठमनुष्ठानं, तत्सन्निधौ वैरादिनाशः, परानुग्रहकर्तृता, औचित्ययोगो विनेयेषु, तथाऽवन्ध्या सत्क्रियेति ।
योगदृष्टिसंग्रह परायां पुनदृष्टौ चन्द्रचन्द्रिकाभासमानो बोधः सद्ध्यानरूप एव सर्वदा, विकल्परहितं मनः, तदभावेनोत्तमं सुखं, आरूढावरोहणवन्नानुष्ठानं प्रतिक्रमणादि, परोपकारित्वं, यथाभव्यत्वं पूर्ववदवन्ध्या क्रियेति । एवं सामान्येन सद्दष्टेः योगिनो दृष्टिरष्टधा इति अष्टप्रकारा ।।
अत्राह-ग्रन्थिभेदे सदृष्टित्वं स च दीर्घोत्तरकालमिति कथं सद्दृष्टेदृष्टिरष्टधेति ? उच्यते। अवन्ध्यसदृष्टिहेतुत्वेन मित्रादिदृष्टिनामपि सतीत्वादिति वर्षोलकनिष्पत्ताविक्षुरसकक्कबगुडकल्पाः खल्वेताः खण्डशर्करामत्स्यण्डीवर्षोलकसमाश्चेतरा इत्याचार्याः । इक्ष्वादीनामेव तथाभवनादिति रुच्यादिगोचरा एवैताः एतेषामेव संवेगमाधुर्योपपत्तेः । इक्षुकल्पत्वादिति नलादिकल्पास्त्वभव्याः संवेगमाधुर्यशून्यत्वात् ।
अनेन सर्वथाऽपरिणामिक्षणिकात्मवादे दृष्टिभेदाभावमाह, तत्तथाभवनाऽनुपपत्तेरिति ॥१५॥
इयं च सकलयोगिदर्शनसाधारणेति यथाविधानां यथा भवति तथाविधानां तथाऽभिधातुमाह
यमादियोगयुक्तानां खेदादिपरिहारतः ।
अद्वेषादिगुणस्थानं क्रमेणैषा सतां मता ॥१६॥
यमादियोगयुक्तानामिति । इह यमादयो योगाङ्गत्वाद्योगा उच्यन्ते । यथोक्तं यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि । (खेदादिपरिहारतः) तदेवं यमादियोगप्रत्यनीकाशयपरिहारेण । एतेऽपि चाष्टावेव । तथा चोक्तम्,
खेदोद्वेगक्षेपोत्थानभ्रान्त्यन्यमुद्रुगासङ्गैः।
युक्तानि हि चित्तानि प्रबन्धतो वर्जयेन्मतिमान् ॥ तदेतत्परिहारेणापि क्रमेणैषाष्टधेति । एवमद्वेषादिगुणस्थानमिति यत एतान्यप्यष्टावेव । यथोक्तम् ।