________________
योगदृष्टिसंग्रह
योगदृष्टिसमुच्चयः
उपादेयधियाऽत्यन्तं सञ्जाविष्कम्भणान्वितम् । फलाभिसन्धिरहितं संशुद्धं ह्येतदीदृशम् ॥२५॥
उपादेयधिया उपादेयबुद्ध्या, अत्यन्तं सर्वान्यापोहेन तथापरिपाकात्सम्यग्ज्ञानपूर्वरूपत्वेन । सञ्जाविष्कम्भणाऽन्वितम्=क्षयोपशमवैचित्र्यादाहारादिसञोदयाऽभावयुक्तम् । सज्ञा आहारादिभेदेन दश । तथा चार्षम् ।
"कइविहा णं भन्ते । सन्ना पन्नत्ता ? । गोयमा ! दसविहा । आहारसन्ना, भयसन्ना, मेहुणसन्ना, परिग्गहसन्ना, कोहसन्ना, माणसन्ना, मायासन्ना, लोभसन्ना, ओहसन्ना, लोगसन्ना" इति ।।
एतत्सम्प्रयुक्ताऽऽशयानुष्ठानं सुन्दरमप्यभ्युदयाय, न निःश्रेयसाऽवाप्तये परिशुद्ध्यभावाद्, भवभोगनिःस्पृहाशयप्रभवमेतदिति योगिनः । फलाभिसन्धिरहितं भवान्तर्गतफलाऽभिसन्ध्यभावेन । आह असम्भव्येव सञ्ज्ञाविष्कम्भणे पूर्वोदितफलाऽभिसन्धिः ? | सत्यमेतत् तद्भवान्तर्गतफलमधिकृत्य, इह तु तदन्यभवान्तर्गतमपि सामानिकादिलक्षणफलमधिकृत्य गृह्यते, तदभिसन्धेरसुन्दरत्वात्तदुपात्तस्यास्य स्वतः प्रतिबन्धसारत्वतः । एतद्रहितं चेदमपवर्गसाधनं, स्वप्रतिबन्धसारं तु तत्स्थानस्थितिकारि एव तथास्वभावत्वात्, गौतमभगवद्बहुमानवत्, एवम्भूतस्यैव योगनिष्पादकत्वात् । न ह्यशालिबीजात्कालेनाऽपि शाल्यङ्करः । एतत्त्वभिन्नग्रन्थेरपि तदैवं भवति चरमयथाप्रवृत्तिकरणसामर्थ्येन तथाविधक्षयोपशमसारत्वादप्रमत्तयतेः सरागस्यैव वीतरागभावकल्पम् । यथाहुर्योगाचार्याः ।
___ "योगबीजचित्तं भवसमुद्रनिमग्नस्येषदुन्मज्जनाभोगः, तत्सक्त्यतिशयशैथिल्यकारी, प्रकृतेः प्रथमविप्रियेक्षा, तदाकूतकारिणी मुज्जासमागमोपायनं चेतस्तदुचितचिन्तासमावेशकृद् ग्रन्थिपर्वतपरमवज्रं नियमात्तद्भेदकारि भवचारकपलायनकालघण्टा तदपसारकारिणी समासेन इत्यादि" ।
___ अतः संशुद्धं ह्येतदीदृशम् एतदिति जिनकुशलचित्तादि । एतच्च तथाविधकालादिभावेन तत्तत्स्वभावतया फलपाकाऽऽरम्भसदृशमिति ॥२५॥
न चेदमेव केवलं योगबीजमिति तदन्तराभिधित्सयाह
आचार्यादिष्वपि ह्येतद्विशुद्धं भावयोगिषु । वैयावृत्त्यं च विधिवच्छुद्धाशयविशेषतः ॥२६॥
आचार्यादिष्वपि आचार्योपाध्यायतपस्व्यादिष्वपि, एतदेव कुशलचित्तादि, विशुद्धं-संशुद्धमेवेत्यर्थः । किंविशिष्टेषु ? आह-भावयोगिषु न द्रव्याचार्यादिष्वधर्मजलक्षणेषु, कूटरूपे खल्वकूटबुद्धेरप्यसुन्दरत्वात् । नैतदेव केवलं योगबीजम्, किं तर्हि ? वैयावृत्त्यं च व्यावृत्तभावलक्षणमाहारादिना, विधिवत् =सूत्रोक्तविधियुक्तं पुरुषाद्यपेक्षयेत्यर्थः । यदाह
पुरिसंतस्सुवयारं, उवयारं चप्पणो य णाऊणं । कुज्जा वेयावडियं, आणं काऊं निरासंसो ॥ इत्यादि ।
अत एवाह-शुद्धाशयविशेषतः शुद्धचित्तप्रबन्धविशेषेण अयं च तथाविधकालादिभावेनेत्युक्तप्रायम् ।
बीजान्तरमाह
भवोद्वेगश्च सहजो द्रव्याऽभिग्रहपालनम् । तथा सिद्धान्तमाश्रित्य विधिना लेखनादि च ॥२७॥
भवोद्वेगश्च संसारोद्वेगश्च जन्मादिरूपतया भवत्यस्य, सहजो नेष्टवियोगादिनिमित्तः, तस्याऽऽर्तध्यानरूपत्वात् । उक्तं च "प्रत्युत्पन्नात्त दुःखान्निर्वेदो द्वेष ईदृशः । न वैराग्यमित्यादि" योगबीजमिति वर्तते । तथा द्रव्याऽभिग्रहपालनम् औषधादिसमादानमधिकृत्य भावाभिग्रहस्य विशिष्टक्षयोपशमभावरूपस्याऽभिन्नग्रन्थेरसम्भवाद् द्रव्याऽभिग्रहग्रहणम् । तथा