________________
२/६२५
षड्दर्शन समुञ्चय भाग-२, श्लोक-४४, जैनदर्शन
षड्दर्शन समुच्चय भाग - २,
(हिन्दी भावानुवाद)
अथ चतुर्थोऽधिकारः । जैनदर्शनः । अथादौ जैनमते लिङ्गवेषाचारादि प्रोच्यते । जैना द्विविधाः श्वेताम्बरा दिगम्बराश्च । तत्र श्वेताम्बराणां रजोहरणमुखवस्त्रिकालोचादि लिङ्ग, चोलपट्टकल्पादिको वेषः, *पञ्च समितयस्तिस्रश्च E-'गुप्तयस्तेषामाचारः । “ई-भाषैषणादाननिक्षेपोत्सर्गसंज्ञिकाः । पञ्चाहुः समितीस्तिस्रो गुप्तीस्त्रियोगनिग्रहात ।।१।।” इति वचनात अहिंसासत्यास्तेयब्रह्माकिंचन्यवान क्रोधादिविजयी दान्तेन्द्रियो निर्ग्रन्थो गुरुः, माधुकर्या वृत्त्या E-नवकोटीविशुद्धस्तेषां नित्यमाहारः, संयमनिर्वाहार्थमेव वस्त्रपात्रादिधारणम्, वन्द्यमाना धर्मलाभमाचक्षते । दिगम्बराः पुनर्नाग्न्यलिङ्गाः पाणिपात्राश्च । ते चतुर्धा काष्ठासङ्घ-मूलसङ्घ-माथुरसङ्घ-गोप्यसङ्घ-भेदात् । काष्ठासङ्घ चमरीवालैः पिच्छिका, मूलसचे मायूरपिच्छः पिच्छिका, माथुरसङ्के मूलतोऽपि पिच्छिका नादृता, गोप्या मायूरपिच्छिका । आद्यास्रयोऽपि सङ्घा वन्द्यमाना धर्मवृद्धिं भणन्ति, स्त्रीणां मुक्तिं केवलिनां भुक्तिं सव्रतस्यापि सचीवरस्य मुक्तिं च न मन्वते, गोप्यास्तु वन्द्यमाना धर्मलाभं भणन्ति, स्त्रीणां मुक्तिं केवलिनां भुक्तिं च मन्यन्ते । गोप्या यापनीया इत्यप्युच्यन्ते । सर्वेषां च भिक्षाटने भोजने च द्वात्रिंशदन्तराया-4 मलाश्चE-5 चतुर्दश वर्जनीयाः । शेषमाचारे गुरौ च देवे च सर्वं श्वेताम्बरैस्तुल्यम्, नास्ति तेषां मिथः शास्त्रेषु तर्केष्वपरो भेदः ।।४४ ।।
व्याख्या का भावानुवाद : ___ अब प्रारंभ में जैनदर्शन में लिंग, वेष, आचारादि कहे जाते है। जैनो के दो प्रकार है। (१) श्वेतांबर, (२) दिगंबर । उसमें श्वेतांबरो का रजोहरण, मुहपत्ति, लोचसे मुंडित मस्तक आदि लिंग है। चोलपट्टा, पांगरणी इत्यादि वेष है। पंचसमिति और तीन गुप्ति उनका आचार है। कहा है कि... "इर्यासमिति, भाषासमिति, एषणासमिति, आदाननिक्षेपसमिति और उत्सर्गसमिति, यह पाच समिति है तथा मन-वचन-काया ये तीन योग के निग्रह से क्रमशः मनगुप्ति, वचनगुप्ति और कायगुप्ति ये तीन गुप्तियां है। समिति-गुप्ति का स्वरुप परिशिष्ट में देखना।
इस वचन से जैनमत में अहिंसा, सत्य, अस्तेय, ब्रह्मचर्य और अपरिग्रह, ये पांचमहाव्रतवाले, (अ) “इUभाषैषणादाननिक्षेपोत्सर्गाः समितयः" || तत्त्वार्थ सू०९/५ ।। (व) “सम्यगयोगनिग्रहो गुप्तिः" ।। तत्वार्थसू० ९/४ ।।
(E-1-2-3-4-5) -- तुलनात्मकपाठः परिशिष्टे द्रष्टव्यः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org