Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 12
________________ ११ द्वात्रिंशिका] अध्यात्मबिन्दुः तिर्यगादिपर्यायेण भवन् द्रव्यत्वभूतामन्वयशक्तिमपरित्यजन् स्वयमेव नानावस्थान्तरभाक् किं न स्यात् ? । यथा च मृद्रव्यस्य स्वयं परिणामशक्तियोगित्वेऽपि जलादिसामग्रीसव्यपेक्ष एव कुम्भादित्वेनात्मलाभः तथा जीवस्यापि स्वयं परिणामशक्तियोगित्वेऽपि नामकर्मप्रकृत्युदयसव्यपेक्ष एव तिर्यगादित्वेनात्मलाभः । एवं चानादिसिद्धौपाधिकसंसरणधर्मा जीव इति सिद्धम् ॥४॥ अथ पदार्थस्वरूपबोधस्य निश्चय-व्यवहारमूलकत्वेन तत्स्वरूपं किञ्चित् प्रकटयति - भूतार्थो ननु निश्चयस्तदितरोऽभूतार्थमावेदयन्, ___ संत्याज्यो नितरां यतः स्व-परयोर्भेदे स बीजं न हि । भूतार्थस्तु विशुद्धवस्तुकलनाऽभिज्ञो ध्रुवं यत् ततो, भूतार्थं ननु संश्रितो विशदधीः सम्यग्दृगात्मा भवेत् ॥५॥ व्याख्या - ननु निश्चितं निश्चयो निश्चयनयो भूतार्थः सद्भूतार्थाभिधायी यद् वस्तु यथास्वरूपं तत् तथैव प्रतिपादयतीत्यर्थः । एतन्नयमन्तरेण ह्यनाद्यशुद्धचिद्रव्यस्य नवतत्त्वरूपतयाऽनादिकालात् परिणतस्य पङ्कसंवलितसलिलवत् तिरोहितस्वच्छत्वस्य कतमो नामोपायः सहजज्ञायकमात्रस्वरूपसंवेदने स्यादतो वस्तुस्वरूपावबोधार्थं निश्चयोऽनुसर्तव्य इत्यर्थः। निश्चयनयो हि द्रव्याश्रितत्वात् केवलस्य जीवस्य स्वाभाविकं भावमवलम्ब्य प्रवर्तमानः परभावं परस्य सर्वमपि निषे[य]धन् शुद्धं वस्तु व्यवस्थापयति । अत एव "द्रव्याश्रितो निश्चयः" इति [ ] लक्षणम् । सोऽपि द्विविधः-शुद्धनिश्चयः अशुद्धनिश्चयश्च । तत्र निरुपाधिकगुण-गुण्यभेदनिरूपणप्रवण आद्यः, द्वितीयस्तु सोपाधिकगुण-गुण्यभेदनिरूपणप्रवणः । तदत्र शुद्धात्मप्रतिपत्तौ शुद्धनिश्चय[नय] एव प्रयोजनवान् । तदन्वय-व्यतिरेकसाध्यत्वात् तत्त्वज्ञानस्येति, अयं हि निखिलकर्मविकारानपोह्य केवलज्ञातृत्वमात्रविशिष्टं शुद्धं नीरूपं सिद्धसदृशं पर्यन्तपाकोत्तीर्णजात्यजाम्बूनदस्थानीयमात्मानमनुभावयतीति सिद्धं भूतार्थत्वं निश्चयस्य । तदितरो व्यवहार: अभूतार्थम् असत्यार्थम् आवेदयन् नितरां संत्याज्यः । अयमर्थः-व्यवहारो हि पर्यायाश्रितत्वात् परभावं परस्य विदधन्नीलः स्फटिक इतिवदौपाधिकभावं जीवे समारोप्य योगस्थानोपयोगस्थानबन्धस्थान-गुणस्थान-संक्लेशस्थान-लेश्यास्थान-मार्गणास्थान-जीवस्थानादिभावभावितवैश्वरूप्यं जीवद्रव्यं व्यवस्थापयति, तादृशश्च कथं शुद्धबुद्धटङ्कोत्कीर्ण-स्वभावस्यात्मनः स्वरूपावगतौ बीजं स्यात् ? अनादिप्रसिद्धाशुद्धतापुरस्कारेणैव वस्तु-स्वरूपावेदनात् । अतो भेदज्ञानरहस्यासमर्पकत्वेन तदन[]गतेत्येतदेवाह- 'यतः स्व-परयोर्भेदे स बीजं न हि' इति । स्वश्चात्मा, परश्चौपाधिको योगस्थानादिरूपो भावस्तयोर्भेदे विवेके स व्यवहारो न हि योगस्थानादिकर्मेरितमात्मानं प्रतिष्ठापयन्नुपदर्शितौपाधिकभावविशिष्टं तं चानुभावयन् १ जाम्बूनदं सुवर्णम्।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122