Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust
View full book text
________________
द्वात्रिंशिका ]
अध्यात्मबिन्दुः
यस्यानुभूतिर्विषयेषु विकारान्न भजते- न धारयति तादृशस्य - एतादृशस्य पुण्यपुरुषस्य कुत्र रागद्वेषयोर्द्वितयं न उदेति – इत्याशङ्कायामाह - 'सर्वद्रव्येषु' विश्ववर्तिमनोज्ञामनोज्ञेषु सर्वबाह्यपदार्थेष्विति । ‘टोत्कीर्णप्रकृतिकलसंज्ञान - सर्वस्वभाज: ' यः पुरुषः टङ्केणोत्कीर्णाया मूर्तेरिव स्वच्छं प्रकृत्या मधुरं संज्ञानस्य सर्वस्वं धारयति तादृशस्य पुरुषस्य यदुदितं कर्म तदिदं 'जातु' कदाचिदपि नैव नूतनकर्म बन्धकारकं भवति । अयं भावः - सामान्यतो मोहनीयकर्मोदयेन रागद्वेषौ उदयं लभेते परं येषां पुरुषोत्तमानामात्मनि ' दृढा' निश्चला मतिर्येषां च विषयाणां सम्पर्केऽपि निर्विकारानुभूतिश्व वर्तते । तेषां सर्वेष्वपि द्रव्येषु रागद्वेषयोरुदयो न भवति । यथा च टङ्केणोत्कीर्णा मूर्तिः सुन्दरा प्रतिभाति तथैव प्रकृत्या मधुरं यत्संज्ञानं चैतन्यं ज्ञानं वा तस्य सर्वस्वं यो भजति स टङ्कोत्कीर्णप्रकृतिकलसंज्ञानभाक्, एतादृशस्य पुरुषस्य नूतनानां कर्मणां बन्धो न भवति रागद्वेषरहितत्वादिति ।
परपदं प्रोज्झ स्वं रूपं कलय येन संसारान्मुच्यस इत्युपदेशं ददन्नाह - मत्तो यस्मिन् स्वपिषि न पदं तावकं भावकं ( प्र ) तत् त्वाधायीदं परपदमिति प्रोज्झ दूरं महात्मन् !
यस्मिन् शुद्धः स्वरसवसतः स्थायितामेतिभाव
स्तत् स्वं रूपं झटिति कलयन् मुच्यसे किं न बन्धो ! ॥ २८ ॥
९९
पद्मप्रभा०- - मत्त इत्यादि, 'मत्त: ' प्रमत्त उन्मत्तो वा, विषयेषु मग्नो जनो मत्त इति उच्यते । 'यस्मिन् ' यस्यां स्थित्यां त्वं स्वपिषि सा स्थिति विषयमग्नता 'न पदं तावकं' न तव न भावकं - तात्त्विकं वास्तविकं पदं 'तत्त्वाधायीदं' तत्त्विदं आधायि इति अध्यारोपितं न तु साहजिकं, भावकम्प्रत्वमित्यपि पाठो लभ्यते, तस्यायमर्थः तत्पदं कम्पनशीलं परिणामीति, भावेषु - पदार्थेषु कम्प्रत् - चलनशीलं अत एव 'परपदं ' परकीयं पदमिति हेत्वर्थे, तस्मात् 'हे महात्मन् !' तत्पदं अतिशयेन 'दूरं' 'प्रोज्झ' त्यज त्वमिति शेषः । 'यस्मिन्' यत्पदे यस्यां स्थितौ 'भावः' परिणामः 'स्थायितामेति' स्थिरत्वं लभते तत्‘स्वं रूपं ' स्वस्य आत्मनः शुद्धं स्वरूपं 'कलयन्' जानन् 'झटिति' सत्व विना विलम्बं 'बन्धो !' हे भ्राता, अत्र बन्धो शब्दस्य प्रयोगः आत्मानमुद्दिश्य कृतोऽस्ति । ‘मुच्यसे किं न ?' सुतरां सर्वथा मुच्यस एव भवबन्धादिति शेषः ॥२८॥
-

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122