Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 107
________________ १०६ अध्यात्मबिन्दुः भूताविष्टो नर इह यथाऽज्ञानतः स्वं च भूतं, चैकीकुर्वन् भवति विसद्दृक्चेष्टितानां विधाता । अप्यात्माऽयं निज-परविवेकच्युतः कामकोपादीनां कर्ता भवति नितरां शुद्धचिदूषकाणाम् व्याप्यव्यापकभावतः प्रकुरुते जीवः स्वभावान् यथा भावाद् वेदकवेद्यतोऽनुभवति स्वांस्तान् स्वभावान् पुनः । तद्वद् वेदयतेऽथवा प्रकुरुते भावान् परांश्चेदयं स्यादेवं हि कृतिद्वयस्य करणात् सिद्धान्तबाधः स्फुटम् सर्वे भावा निश्चयेन स्वभावान् कुर्वन्तीत्थं साधु सिद्धान्ततत्त्वम् । भिन्नद्रव्यीभूतकर्मप्रपञ्चं जीवः कुर्यात् तत् कथं वस्तुतोऽयम् रागो द्वेषो मोह इत्येवमाद्या भावा नूनं शुद्धचिद्दूषकाः स्युः । रोधादेषां जायते द्रव्यकर्माभावस्तस्मान्निर्विकारानुभूतिः ज्ञानंज्ञा भवति न खलु क्रोधमुख्येषु तत् स्यात् क्रोधः क्रोधेन हि पुनरयं पूरुषे चित्स्वरूपे । कर्मद्वन्द्वे न हि भवति चिच्चिन्न कर्मावरुद्धेतीत्थं शुद्धग्रहणरसिकः किं विधत्तेऽन्यभावम् यदात्मनाऽऽत्मास्त्रवयोर्विभेदो ज्ञातो भवेत् ज्ञानदृशा तदानीम् । निवर्ततेऽज्ञानजकर्तृकर्म - प्रवृत्तिरस्मान्निखिलाऽपि मक्षु स्वत्वेन स्वं परमपि परत्वेन जानन् समस्ता न्यद्रव्येभ्यो विरमणमितश्चिन्मयत्वं प्रपन्नः । - tie ॥२०॥ ॥२१॥ ॥२२॥ ॥२३॥ ॥२४॥ ॥२५॥ [ चतुर्थी

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122