Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust
View full book text
________________
१०५
॥१३॥
॥१४॥
॥१५॥
द्वात्रिंशिका]
अध्यात्मबिन्दुः प्रपश्यतां शान्तमनन्तमूर्ध्वं पदं न चैषां कतमोऽपि भाति बन्धोदयोदीरणसत्त्वमुख्याः, भावाः प्रबन्धः खलु कर्मणां स्यात् । एभ्यः परं यत्तु तदेव धामाऽस्म्यहं परं कर्मकलङ्कमुक्तम् वातोल्लसत्तुङ्गतरङ्गभङ्गाद् यथा स्वरूपे जलधिः समास्ते । तथाऽयमात्माऽखिलकर्मजन्यविकारनाशात् स्पृशति स्वरूपम् चैद्रूप्यमेकमपहाय परे किलामी, यावन्त एव पुरुषेऽत्र लसन्ति भावाः । तान् संप्रपद्य च परत्वधिया समस्ता - नास्ते तदाऽऽस्रवति किं ननु कर्म नव्यम् ? शरीरसंसर्गत एव सन्ति वर्णादयोऽमी निखिलाः पदार्थाः । जाम्बूनदादेरुपधेरिव द्राग वैशद्यभाजि स्फटिके तरङ्गाः स्फटिकमणिरिवायं शुद्धरूपश्चिदात्मा, भजति विविधभावं द्वेष-रागाधुपाधेः । यदपि तदपि रूपं नैव जाहात्ययं स्वं, न खलु भवति चान्द्री ध्वान्तरूपा मरीचिः परं स्वात्मत्वेन स्वमपि च परत्वेन कलयनयं रागद्वेषाधनियतविभावैः परिणतः । ततो रज्ये रुष्याम्यहमिति विकल्पाननुकलं प्रकुर्वन् जीवोऽयं ननु जगति कर्माणि कुरुते
॥१६॥
॥१७॥
॥१८॥
॥१९॥

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122