Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 112
________________ द्वात्रिंशिका] १११ अध्यात्मबिन्दुः आत्मस्वरूपभावनपरा ॥ तृतीया द्वात्रिंशिका ॥ ॥१॥ ॥२॥ ॥३॥ ॥४॥ विकल्पजालकल्लोलैर्लोले किल मनोजले। नात्मा स्फुरति चिद्रूपस्तोयचन्द्र इव स्फुटम् आत्मानं भावयेन्नित्यं भावितैः किमनात्मभिः । प्रपद्य निस्तरङ्गत्वं येनात्मा मुच्यतेऽचिरात् परद्रव्योन्मुखं ज्ञानं कुर्वन्नात्मा परो भवेत् । स्वद्रव्योन्मुखतां प्राप्तः स्वतत्त्वं विन्दते क्षणात् देहे यथाऽऽत्मधीरस्य तथाऽऽत्मन्येव चेद् भवेत् । कालत्रयेऽपि बन्धोऽस्य न भवेदिति मन्महे न स्वं मम परद्रव्यं नाहं स्वामी परस्य च। . अपास्येत्यखिलान् भावान् यद्यास्ते बध्यतेऽथ किम् ? निष्क्रियस्याऽयसोऽयस्कान्तात् स्यात् सक्रियता यथा। कर्मोपाधेस्तथा जीवो निष्क्रियः सक्रियो भवेत् शुद्धो बुद्धश्चिदानन्दो निष्कियो निर्मलोऽव्ययः । परमात्मा जिनः सोऽयं सकर्मा जीवनामभाक् कर्मभ्यः कर्मकार्येभ्यः पृथग्भूतं चिदात्मकम् । आत्मानं भावयेन्नित्यं नित्यानन्दपदप्रदम् एको वै खल्वहं शद्धो निर्ममो ज्ञानदृङ्मयः। स्वस्वरूपे निमज्जय द्राग् रागादीन् क्षपयाम्यमून् पीत-स्निग्ध-गुरुत्वानां यथा स्वर्णान्न भिन्नता। तथा दृग्-ज्ञान-वृत्तानां निश्चयान्नात्मनो भिदा ॥६॥ ॥७॥ ॥८॥ ॥९॥ ॥१०॥

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122