Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 118
________________ . द्वात्रिंशिका ] ततो राग-द्वेषद्वितयमिदमप्राप्तविषयं क्षयं दाह्याभावाद्दहन इव गच्छत्यतितमाम् महानन्दस्थानं न हि परमतस्त्रस्यसि यतः प्रविश्वस्तो यस्मिन् भयपदमतो नान्यदपरम् । ततः स्वात्मारामे क्षणमयीं भजस्व स्थितिमहो यतः शीर्यन्तेऽमी भ्रमनिचितकर्माणुनिकराः भवारण्यभ्रान्तौ स्वयमजनि हेतुः स्व-परयोरविज्ञानात् स्वस्मिन् यदतनुत कर्तृत्वधिषणाम् । विमोक्षेऽपि स्वस्मिन् स्थितिपरिणतेर्यत्स्वयमसा वतः शास्ता स्वस्य स्वयमयमतोऽन्यः किल नहि भवाद् भोगेभ्यो वा ननु यदि च भोगायतनतो विरज्य क्षिप्रं चेदनुभवति रूपं निजमयम् । ततः संसाराख्या व्रततिरियमप्राप्तविषय - प्रपञ्चार्णः सेकात् क्षणत इव संशुष्यतितमाम् यथा रोगान्मुक्तः सरसपटुकट्वम्ललवणद्रवान् नानाहारांस्त्यजति निजनैरुज्यकृतये । तथाऽयं दृग्मोहज्वररहितचिन्मूर्तिरखिलां - स्त्यजन् भोगास्वादाननुभवति नैरुज्यमचिरात् चकास्त्येतद्यस्मिन् जगदखिलमूतं च महसि जंगत्यप्यस्मिन् यद् वसति न दधत् तत्परिणतिम् । अविद्यानिद्राघूर्णिततरक्वचिद्दृग्जनिमुखान् बहून् स्वप्नान् पश्यत्यथ तदिदमस्तस्वविभवम् वसेयुः खग्रामा यदमलचिदध्यासकलिता लभन्ते शून्यत्वं क्षणमपि तदध्यासवियुताः । अथादत्ते तेभ्यो विषयरसनाख्यं करमलं स एवायं देवो निजपदमितः कस्य न मुदे अध्यात्मबिन्दुः ॥१९॥ ॥२०!! ॥२१॥ ॥२२॥ ॥२३॥ ॥२४॥ ॥२५॥ ११७

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122