Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust
View full book text
________________
अध्यात्मबिन्दुः
११०
शुद्धं ब्रह्मेति संज्ञानसुधाकुण्डसमाप्लुताः । धौतकर्ममलाः सन्तो निर्वृतिं परमाश्रिताः
स्वरूपालम्बनान्मुक्तिर्नान्यथाऽतिप्रसङ्गतः । अहमेव मयोपास्यो मुक्तेर्बीजमिति स्थितम् यथैव पद्मिनीपत्रमस्पृष्टं तोयबिन्दुभिः । तथाऽऽत्माऽयं स्भावेन न स्पृष्टः कर्मपुद्गलैः सौख्यं सांसारिकं दुःखानुषक्तं व्यक्तमध्वनि । ग्रीष्मे पान्थस्य मध्याह्ने मरौ पक्त्वैव खादतः भोगेष्वश्रान्तविश्रान्तिर्धियः क्षेमङ्करी न हि । पन्नगीव नयत्येषाऽतुच्छं मूर्च्छा यदात्मनः यदुच्चैः पदतः पातः सोऽनुभावो विभावजः । तत्रैवाविरतं सति श्रयन्त्रद्यापि खिद्यसे
नाहं वपुष्मान् न च मे वपुर्वा बोधोऽहमस्मि प्रकृतेर्विभिन्नः । इयाननेहा न मया व्यभावि गच्छन्नहो ! मोहविडम्बितेन
॥२४॥
प्रकृतिगुणविरक्तः शुद्धदृष्टिर्न भोक्ता तदितर इह भोक्ता तत्स्वरूपानुरक्तः । तदिह भवति भेदाभ्यासशाली जयीति प्रकृतिगुणविकारानङ्कितं स्वं भजध्वम्
॥२५॥
॥२६॥
॥२७॥
॥२८॥
वपुष्यहंधीनिगडेन कामं चिराय बद्धोऽसि महानुभाव ! । बोधस्वरूपोऽयमहं न देही-त्यवेत्य तं चिद्गुघणेन भङ्गिध ॥३०॥
॥२९॥
॥३१॥
॥३२॥
[ चतुर्थी

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122