Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust
View full book text
________________
१०८
[चतुर्थी
॥१॥
॥२॥
॥३॥
॥४॥
अध्यात्मबिन्दुः कर्तृकर्मस्वरूपप्रकाशनप्रवणा
॥ द्वितीया द्वात्रिंशिका ॥ मूर्छा विषान्मणेर्दाहाभावो भ्रामकतो भ्रमः । चुम्बकात् कर्षणं चेति नाना पुद्गलशक्तयः ज्ञानावृत्यादयोऽप्येते पुद्गला दृढशक्तयः । जीवशक्ति बलाद् भक्त्वा कुर्वन्त्याशु विकारिणीम् मद्यान्मौढ्यं धियस्तैक्ष्ण्यं दृष्टं ब्राह्मीहविष्यतः । कर्मापि पौद्गलं तद्वत् कथं न स्याद् विकारकृत् ? अविद्या हि विकारित्वं जनयेदात्मनः सती। नासती गगनाब्जस्येवासतोऽर्थक्रियाच्युतेः सत्त्वे द्वैतं ततः कर्म पौद्गलं तद्विकारकृत् । अनुग्रहोपघातौ यत् पुद्गलेभ्य इति श्रुतेः अनादित्वादनन्तः स्यात् संश्लेषः कर्म-जीवयोः । स्वात्मयोगवदित्येवं प्रवितयं न तार्किकैः ।। अनादित्वेऽपि भावस्य ध्वंसः स्याद्धेतुसन्निधेः । सुवर्णमलवद् भव्यसंसारपरिणामवत् कर्ताऽयं स्वस्वभावस्य परभावस्य न क्वचित् । कर्ताऽऽत्मेति श्रुतिः साक्षाद् यत् स्वभावक्रियापरा अशुद्धनिश्चयेनायं कर्ता स्याद् भावकर्मणः । व्यवहाराद् द्रव्यकर्मकर्तृत्वमपि चेष्यते व्याप्यव्यापकभावो हि यदिष्टः कर्तृ-कर्मणोः । तदभावे द्रव्यकर्मकर्तृत्वं घटते कथम् ? तदात्मनि भवेद् व्याप्तृव्याप्यता नातदात्मनि । तदभावे कथं कर्तृकर्मता जीव-कर्मणोः?
॥६॥
७॥
॥८॥
॥९॥
॥१०॥
॥११॥

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122