Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust
View full book text
________________
११३
॥२३॥
॥२४॥
॥२५॥
॥२६॥
॥२७॥
द्वात्रिंशिका]
अध्यात्मबिन्दुः वेत्ता सर्वस्य भावस्य वेद्यं च परमं हि यः। अनाद्यनन्तो निर्द्वन्द्वो महानन्दो महोदयः विकल्पैरपरामृष्टः स्पृष्टः कर्माणुभिर्न च । परं ज्योतिः परं तत्त्वं तदेवाहं न चापरम् अणोरणीयान् महतो महीयानपि यः पुनः । यस्य भासा जगत् सर्वं भात्यलक्ष्यः पुनः स्वयम् विषमश्नन् यथा वैद्यो विक्रियां नोपगच्छति । कर्मोदये तथा भुञ्जानोऽपि ज्ञानी न बन्धते मन्त्रादिध्वस्तसामर्थ्यो न दहत्यनलो यथा। बढुं नालं तथा ज्ञानशक्तिकुण्ठीकृतोऽप्ययम् मद्यं पिबन् यथा मत्तो न स्यादरतिमान् पुमान् । द्रव्यभोगं तथा कुर्वन् सम्यग्दृष्टिर्न लिप्यते स्वरूपनिष्ठाः सर्वेऽपि भावा इति जिनेशगीः । तान् मत्वाऽऽत्मतया कर्तृ-कर्मक्लेशो वृथैव किम् ? भावाः स्वरूपविश्रान्ता लोके सर्वेऽत्र यद्यमी। मूढो हन्ताहमेवैको रज्ये यत् परवस्तुषु न रज्यते न च द्वेष्टि परभावेषु निर्ममः । ज्ञानमात्र स्वरूपं स्वं पश्यन्नात्मरतिर्मुनिः इत्येवं स्व-पद्धयास्खलितिचिच्छक्त्या विभाव्य स्फुटं भेदं स्वेतरयोविहाय च परान् भावान् समग्रानमून् । चित्तत्त्वे स्थिरतामुपैति परमां यो निर्विकाराशयः स स्यात् कर्मकलङ्कपङ्कविकलो नित्यस्फुरच्चिद्घनः
॥२८॥
॥२९॥
॥३०॥
॥३१॥
॥३२॥

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122