Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 99
________________ अध्यात्मबिन्दुः [चतुर्थी अथ कीदृशं पूर्णं ज्योतिर्विजयते तदाह - जगद् भासा यस्य स्फुरति सहजानन्दसरसं, स्थितं विश्वं व्याप्योल्लसद्मलचिद्दीप्तिपटलैः । अवाग्व्यापारं यत् कृतिविधुरमत्यन्तगहनं, परं पूर्णं ज्योतिर्दलितदृढमोहं विजयते ॥२६॥ पद्मप्रभा० जगदित्यादि, 'जगत्' -विश्वं सर्वप्राणिगण इत्यर्थः । 'यस्य' चिदानन्दस्वरूपस्यात्मन 'भासा' ज्ञानतेजसा 'स्फूरति' संवेद्यभावमागच्छति, किं स्वरूपंसंवेद्यभावमित्याह - 'सहजानन्दसरसं' स्वाभाविकसुखपूर्णम् । किञ्च यत् स्वस्मिन् 'उल्लसद्' प्राबल्येन स्फुरत् 'अमलचिद्' निरावरणज्ञानं तस्य 'दीप्तिपटलैः' तेजःसमूहै: 'विश्वं जगत् व्याप्य स्थितं क्षायिकत्वात्। तदेव ज्ञानं ज्योतिर्वा विशिनष्टि - 'अवाग्व्यापारं' वचनागोचरं वचनव्यापारशून्यमित्यर्थः । किञ्च – 'यत्कृति विधुरं यदित्यादि, यज्ज्योतिः कृतिविधुरं कृत्या-कार्यजातेन विधुरं रहितं ज्योतिस्वरूपावस्थाप्राप्त्यनन्तरं न किमपि कार्यजातमवशिष्यते कृतकृत्यत्वात् । 'अत्यन्तगहनं' अतिशयेन गूढस्वरूपं छद्मस्थाविषयत्वात्, किञ्च 'परं' परमं सर्वश्रेष्ठं सर्वोत्कृष्टमित्यर्थः, 'पूर्ण' संपूर्ण परिपूर्ण ऊनतारहितमित्यर्थः । दलितदृढमोहं' दलितः प्रणाशितो दृढो निबिडो मोहो: ममत्वभावो यस्मिन् तत्, ‘ज्योतिः' केवलज्ञानं तत् ‘विजयते' सर्वोत्कर्षेण वर्तत इति ॥२६॥ शुद्धात्मनः रागद्वेषयोरनुदयं कर्मबन्धाभावं च दर्शयन्नाह - राग-द्वेषद्वितयमुदितं यस्य नैवास्ति सर्व - द्रव्येष्वात्मस्थित दृढमतेनिर्विकारानुभूतेः । टोत्कीर्णप्रकृतिकलसंज्ञानसर्वस्वभाजो,... यत्कर्मस्यात् तदिदमुदितं बन्धकृज्जातु नैव ॥२७॥ पद्मप्रभा० रागद्वेषद्वितयेत्यादि, रागद्वेषयोर्द्वितयं - युगलं तस्य 'उदयो यस्य नैवास्ति' यस्येत्यनेन कीदृशस्य पुरुषस्य राग-द्वेषद्वितयोरुदयो नैवास्तीति जिज्ञासायामाह - 'आत्मस्थितदृढमतेः' शुद्धात्मनि स्थिता दृढमतिर्यस्य, किञ्च - निर्विकारानुभूतेः'

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122