Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 98
________________ द्वात्रिंशिका] अध्यात्मबिन्दुः खग्रामाणां प्रादुर्भावस्तेषामेव शून्यत्वं शुद्धात्मनश्वानन्द प्रदत्वं विशदयन्नाह - वसेयुः खग्रामा यदमलचिदध्यासकलिता, लभन्ते शून्यत्वं क्षणमपि तदध्यासवियुताः । अथादत्ते तेभ्यो विषयरसनाख्यं करमलं, स एवायं देवो निजपदमितः कस्य न मुदे ? ॥२५॥ पद्मप्रभा० वसेयुरित्यादि, वसेयुः' इति अस्तित्वं प्राप्नुयुः - वसन्ति अस्तित्वं प्राप्नुवन्तीत्यर्थः, के वसन्तीत्याह - 'खग्रामाः' इन्द्रियाणां विषयाः, कीदृशास्त इत्याह - 'यदमलचिदध्यासकलिताः' यदिति यस्य अनिर्दिष्टस्य कस्यचिद् निर्मलचिदोऽध्यासेन - मिथ्याज्ञानेन कलिताः - ज्ञाताः सुखदायका इति ज्ञानविषयीकृताः । इदमत्राकूतं - ये जना: निर्मलचिदो मिथ्याज्ञानवन्तः प्राकृतजना विषतुल्यान् विषयानमृतमिव मत्वा तत्प्राप्त्यर्थं तान् प्रति प्रधावन्ति महता क्लेशायासेन च तं प्राप्नुवन्ति । मिथ्याज्ञानस्य प्रभावेन विषयाणामेतद् विषचक्रमनादिकालतो गतिशीलमस्तीत्यर्थः । पुनः किमित्याह - 'त एवेन्द्रियाणां विषयाः 'लभन्ते शून्यत्वं' प्राप्नुवन्त्यकिञ्चित्करत्वं पुरुषार्थरहितत्वम्, कथमेवमित्याह - 'क्षणमपि तदध्यासवियुताः' क्षणमपि - अल्पकालमपि तत् - तस्य-चिदात्मनोऽध्यासेन मिथ्याज्ञानेन वियुताः - विशेषेण रहिता इन्द्रियाणां विषया इति । अयं भावः - चिदात्मनो मिथ्याज्ञानेन जना विषयाननुधावन्ति शुद्धात्मनश्च सम्यग्ज्ञानेन विषयान् विषवदामनन्ति तत्पुरुषार्थं च कण्टकशाखामर्दनवनिष्प्रयोजनं गणयन्ति । अपरं चाह- 'अथ' अत एव ज्योतिस्वरूप आत्मा 'आदत्ते' गृह्णाति 'तेभ्यः' खग्रामेभ्यः 'विषयरसनाख्यं' शब्दादिविषयास्वादाभिधं करमलं' करं - राजदेयरूपं अलं- अत्यर्थं धर्मकायनिर्वाहार्थं न तु रसास्वादनिमित्तं 'स एवायं' पूर्णज्योतिस्वरूपात्मा 'देवः' पूर्णावस्थाप्राप्तौ पूज्यत्वाद्देव इति देवः 'निजपदं' स्वशुद्धस्वरूपं इतः' प्राप्तः सन् 'कस्य न मुदे' कस्य प्रमोदाय न स्यात् ? अपि तु सर्वस्याऽपि जगज्जन्तोर्यथाभव्यं परार्थकरणादअपरोपतापित्वाच्च प्रमोदाय स्यादिति । इदमत्र रहस्यं - चिन्मयानन्द आत्मा शब्दादीनामास्वादं राजदेयकररूपेणं गुणाति न तु स्वरसतः । पूर्णावस्थामापन्नः स विशुद्धात्मा देवो भूत्वा जनमनांसि परमानन्दपूर्णानि करोतीति ॥२५॥

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122