Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 101
________________ अध्यात्मबिन्दुः [ चतुर्थी नानाभवपादपानां मूलभेदकमिदं शस्त्रमिति प्रदर्शनपूर्वं तदेव ध्येयमित्याह इदं हि नानाभवपादपानां, मूलोद्भिदं शस्त्रमुदाहरन्ति । सद्ध्याननिष्णात मुनीश्वराणां, ध्येयं तदेतत् कृतिभिः प्रदिष्टम् ॥२९॥ पद्मप्रभा० इदमित्यादि, 'इदं' अध्यात्मशास्त्रं आत्मस्वरूपं आत्मज्ञानं वा तं ‘हि' निश्चयार्थे ‘नानाभवपादपानां' विविधा भवा एव पादपास्तेषां 'मूलोद्भिदं ' मूलानि उद्भिनत्तीति 'मूलोद्भिदं तं मूलोद्भिदं आमूलचूलखण्डनकरमित्यर्थः । शस्त्रं इति तु सुगमं' उदाहरन्ति 'शास्त्रकारा निर्दिशन्ति, अन्यच्च - ' कृतिभिः 'आत्मज्ञानिभिः 'तदेतत्' आत्मस्वरूपं ‘ध्येयं' ध्यातुं योग्यं चिन्तनीयमिति ; 'प्रदिष्टं' निर्दिष्टं - निदर्शितमिति । केषामित्याह - ' सद्ध्याननिष्णात मुनीश्वराणां' सद्ध्याने निष्णातानां प्रवीणानां मुनीश्वराणां यतीनामिति । इदमन्न तात्पर्यं - आत्मस्वरूपज्ञानं नानाभवपादपानां मूलोद्भेदकं शस्त्रं सद्ध्यान- निष्णात-मुनीश्वराणां तदेव ध्येयमिति ॥२९॥ १०० आत्मस्वरूपं विमलबोधेन प्राप्यते कर्मकाण्डेन तु तद् दूरवापमिति दर्शयन्नाह - कर्मकाण्डदुरवापमिदं हि प्राप्यते विमलबोधबलेन । खिद्यते किमु वृथैव जनस्तद्, देहदण्डनमुखैः कृतिकाण्डैः ॥३०॥ पद्मप्रभा० कर्मकाण्डमित्यादि, 'इदं' शुद्धात्मस्वरूपं कर्मकाण्डेन - ज्ञान रहितक्रियाकलापेन 'दुरवापं' प्राप्तं न शक्यं 'हि' निश्चये यथार्थत इति, अपि तु 'विमलबोधबलेन' विमलज्ञानबलेन 'प्राप्यते' प्राप्तुं शक्यते । 'तद्' तस्मात् 'जनः ' लोकः 'किमु' - आश्चर्ये 'वृथैव' निष्कारणमेव 'खिद्यते' श्रमं कुरुते । कैरित्याह - ‘देहदण्डनमुखैः - कृतिकाण्डैः' देहदमनप्रमुखैर्ज्ञानरहितक्रियाकलापैः । अयं भावः आत्मस्वरूपं विमलबोधबलेनैव प्राप्यतेऽत एवाज्ञानवद्भिर्जनैः कर्मकाण्डे वृथा श्रमो न कर्तव्यः, अपि तु विमलबोधबलेन क्रियाकलापस्याराधना कर्तव्या ||३०|| ग्रन्थकारोऽस्यां द्वात्रिंशिकायां जिनागमविरुद्धं छद्मस्थधिया यद् गदितमासीत् तस्य शुद्धिकरणार्थं प्रार्थयति - अज्ञानतो यदिह किञ्चिदपि न्यगादि, जैनागमार्थमतिलङ्घ्य मया विरुद्धम् ।

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122