Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust
View full book text
________________
१०१
द्वात्रिंशिका]
___ अध्यात्मबिन्दुः तच्छोधयन्तु निपुणाः स्वपरार्थदक्षा श्छद्मस्थधीननु यतः स्खलनस्वभावा ॥३१॥
पद्मप्रभा० 'अज्ञानत' इत्यादि, 'अज्ञानतः' मतिमान्द्यात् 'यदिह किञ्चिदपि' यदिह-अस्मिन् ग्रन्थेऽस्यां चतुर्थ्यां द्वात्रिंशिकायां वा किञ्चिदपि 'मया' ग्रन्थकृता 'जैनागमार्थमतिलय' आगमशास्त्रे प्ररूपितां जिनाज्ञामुल्लङ्ग्य 'विरुद्धं' आगमार्थबाह्यमागमार्थबाधकं वा 'न्यगादि' कथितमासीत् 'तच्छोधयन्तु' तां क्षति दूरीकुर्वन्तु, के इत्याह-'निपुणाः' प्राज्ञाः, तेऽपि निपुणाः कीदृशा इत्याह - 'स्वपरार्थदक्षाः' स्वस्य परस्य चार्थो मोक्षस्तस्मिन् दक्षाः 'छद्मस्थधीः' छद्मस्थानां बुद्धिः - प्रज्ञा 'यतः' हेत्वर्थे 'ननु' निश्चये सर्वत्र 'स्खलनस्वभावा' प्रमादयुक्ता भवति ॥३१॥
अथ ग्रन्थकारो द्वात्रिंशिकाचतुष्टयं तत्त्वार्थिनां कीदृशं भवतु तद्भावनां प्रगट्यन्नाहश्रीहर्षवर्दनकृतं स्वपरोपकारि - द्वात्रिंशिकावरचतुष्टयमिष्टबोधम् । तत्त्वार्थिनां रसदमस्तु लसद्विवेक - ख्याति (त्य) स्खलबलवदात्मपरा (र) प्रतीतिः ॥३२॥
पद्मप्रभा० श्री हर्षवर्दनकृतमि'त्यादि, 'श्री हर्षवर्दनकृतं' श्री हर्षवर्दननामा ग्रन्थकार उपाध्यायपदवीसुशोभितस्तेन रचितं 'द्वात्रिंशकावरचतुष्टयं' वरं - श्रेष्ठं द्वात्रिंशिकाचतुष्टयं तत्त्वार्थिनां' जिनोक्ततत्त्वजिज्ञासूनां 'स्वपरोपकारि' स्वस्य परेषां च उपकारि भवतु । 'इष्टबोधं' शास्त्रानुसारिज्ञानप्रदं च भवतु तथा व रसदमस्तु' ज्ञानानन्ददं भवतु 'लसद्विवेकख्याती' त्यादि लसद् - शोभमाना - प्रकाशमाना 'विवेकख्यातिः' आत्मपरभेदज्ञानं अस्खलत् विनावरोधेन बलवत् - बलवती आत्मपरयोः प्रतीतिः तत्कारकमस्तु इति शेषः॥३२॥
सदुपाध्याय - श्रीमद्धर्षवर्दनगणि - विरचितेऽध्यात्मबिन्दौ शुद्धस्वरूपप्रकाशिकानाम्नी चतुर्थी द्वात्रिंशिका समाप्ता।

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122