Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 18
________________ द्वात्रिंशिका] अध्यात्मबिन्दुः १७ विशुद्ध्यभावात् । तस्मात् कतकस्थानीयत्वात् निश्चयस्य पर्येषणं न्याय्यमेव । एतदेवाह-नयद्वय इति । जिनेन्द्रदर्शनं भगवत्सर्वज्ञशासनम् । नयद्वयेन आत्तं क्रोडीकृतम् । स्याद्वादबलेनोभयोरपि विरोधमपोह्य कृतमैत्रीकयोः परस्परसापेक्षयोरेवाङ्गीकरणात्। तथैव वस्तुव्यवस्थितिसिद्धेनॆरपेक्ष्ये हि सर्वं विप्लवेत् । तदुक्तम् - "जइ जिणमयं पवज्जह ता मा ववहार-निच्छए मुअह। एक्केण विणा छिज्जइ तित्थं, अण्णेण उण तच्चं पि" ॥- ॥८॥ अथाऽपवर्गमूलत्वेन भेदज्ञानमभिष्टौतिये यावन्तो ध्वस्तबन्धा अभूवन् भेदज्ञानाभ्यास एवात्र बीजम् । नूनं येऽप्यध्वस्तबन्धा भ्रमन्ति तत्राभेदज्ञानमेवेति विद्मः ॥९॥ व्याख्या - ये यावन्तः केचन प्राक्काले ध्वस्तबन्धाः ज्ञान-क्रियासमुच्चयसमनुष्ठानेन निनकर्माणः अभूवन् अत्र बन्धध्वंसे भेदज्ञानाभ्यास एव बीजम् । अयमर्थः - प्रकृतिपुरुषयोविवेकख्यातौ जातायामेव क्रियमाणस्य कर्मणः सम्यग्ज्ञानमूलकत्वेन बन्धापनयनं प्रति सामर्थ्यम् । तदविवेकख्यातौ तु मोच्य-मोचकयोर्याथात्म्यानवगमात् कस्य मोक्षाय प्रयतताम् ? परद्रव्यविभागेन परद्रव्योपरज्यमानस्वधर्मविभागेन च आत्मन एकाग्रचिन्तने ह्यासंसाराबद्धदृढतरमोहग्रन्थेरुद्ग्रन्थनं स्यात्, ततस्तन्मूलराग-द्वेषक्षपणम्, ततस्तद्धेतुकोत्तरकर्माभावः, केवलयोगोपादीयमानस्य च बन्धस्य शैलेशीकरणे योगनिरोधादेव निरोधे आत्मनः स्वरूपावस्थानलक्षणो मोक्षः सिद्ध्यतीति सिद्धं भेदज्ञानाभ्यासस्य मोक्षं प्रति बीजत्वम् । नूनं निश्चितम्। येऽपि प्राणिनो अध्वस्तबन्धा मोक्षोपायालाभाद् अनपनीतकर्मरज:संश्लेषा भ्रमन्तिअविद्याकन्दलीकन्दायमानमोहानुवृत्तितन्त्रतया गृहीतनानानारकतिर्यगादिपर्यायाः संसरन्तितत्र भ्रमणेअभेदज्ञानमेव बीजमिति विद्मः । अयमर्थः - परात्मनोविवेकाभावे परम् आत्मत्वेनाध्यास्य रज्यन्तो द्विषन्तो मुह्यन्तश्चात्यन्तप्रत्यस्तमितविविक्तात्मख्यातित्वाद् आत्मानं कर्तारं मन्यमाना नानारम्भान् समनुष्ठाय तद्विपाकवेदनाविधुरीकृता अनन्तकालं संसृतिनिवासं नोज्झन्तीति सोऽयमभेदज्ञानानुभावः ॥९॥ पुनरपि भेदज्ञानाय श्लाघते - भेदज्ञानाभ्यासतः शुद्धचेता नेता नाऽयं नव्यकर्मावलीनाम् । १ जलशुद्धीकरणाय व्याप्रियमाणः 'कतक'नामा पदार्थः ।

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122