Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust
View full book text
________________
द्वात्रिंशिका ]
अध्यात्मबिन्दुः
व्याख्या - इत्येवं पूर्वोक्तप्रकारेण । भेदसंविद्बलेन आत्मेतरपदार्थानामात्माऽनात्मविवेकज्ञानसामर्थ्येन । अखिलं [ जीवाजीवप्रपञ्चं धर्माधर्मादिद्रव्यकदम्बकं स्वपरपरिणामसमुपात्तद्वैततयोपात्तद्रव्यभाववैश्वरूप्यं जीवाजीव- पुण्यपापादिरूपं वा ] जीवाजीवपदेन नवानामपि तत्त्वानां ग्रहणं जीवाजीवपरिणामरूपत्वात् तेषाम् द्रुततरं संप्रधार्य स्वभाव-परभावत निश्चित्य यः किल मोहराजानुवृत्तिं विदलति आसंसारात् समस्तपरद्रव्येष्वात्मात्मीयबुद्ध्या प्रसह्यात्मानं खेदयतः स्वरसमात्मनि सङ्क्रमय्य भावकत्वेन भवतो मोहस्यानुवृत्तिं तदानुकूल्येन प्रवृत्तिं विदलति निरुणद्धि । तथा ज्ञानानन्दस्वरूपे भगवति आत्मनि आशु स्थैर्यं भजति कर्मतत्फलसंन्यासपूर्वकं क्रियान्तरविहारनिरोधेन स्वस्मिन्नेव स्थेमानमास्तिघ्नुते स पुमान्, अज्ञानभावं प्रक्षिप्य नचिरात् अल्पीयसाऽनेहसा शुद्धबुद्धस्वरूपो भवति । तत्र शुद्धत्वमवगुण्ठितात्मप्रदेशानां कर्मरजसां समूलोत्सारणात्, बुद्धत्वं तु स्वरूपप्रत्यक्षीकरणात् । अयं भावः- पुरुषार्थः किलास्यात्मनो जीवाजीवावगमपूर्वकं मोहानुवृत्तिनिर्दलनम्, तस्मिन् सत्येव जीवाजीवावबोधस्य साफल्यात् । मोहनिर्दलनं च स्वात्मस्थैर्यमन्तरेण नोपपद्यते । तद्धि आसूत्रयमाणानां द्रव्याणां द्रव्यान्तरप्रतिबन्धाभावादेव मनसोऽनन्यविषयतयाऽयत्नसिद्धं मोहक्षपणं स्यात् । स्वरूपग्रहणमुपलक्षणं पररूपस्यापि, आत्मावबोधस्य सर्वावबोघनन्तरीयकत्वात् । तथाहिआत्मा हि ज्ञानमयः गुणगुणिनोरभिन्न-सत्ताकत्वात्, ज्ञानं तु प्रतिभासमयमहासामान्यमयं तस्य च निर्विशेषसामान्याभावात् प्रतिभासमया-नन्तविशेषमयत्वम् । तदुक्तम् -
३९
निर्विशेषं हि सामान्यं भवेत् खरविषाणवत् ।
सामान्यरहितत्वेन विशेषास्तद्वदेव हि ॥" [ श्लो. वा. आकृति. १०] इति ।
ते च विशेषाः सर्वद्रव्यपर्यायनिबन्धनाः । तदयमर्थः - प्रतिभासमानानन्तविशेषव्यापिप्रतिभासमयमहासामान्यरूपमात्मानं स्वानुभवप्रत्यक्षीकुर्वदेव हि ज्ञानं प्रतिभासमानानन्तविशेषहेतुभूतसर्वद्रव्यपर्यायान् प्रत्यक्षीकुर्यात् । तथा च 'आत्मज्ञानात् सर्वज्ञानं सर्वज्ञानादात्मज्ञानम्' इत्यवतिष्ठते । यद्येवं न स्यात् तदा ज्ञानस्य परिपूर्णात्मसञ्चेतनाभावात् परिपूर्णस्यैकस्यात्मनोऽपि ज्ञानं न सिद्धयेदिति ॥३२॥
इति श्रीस्वोपज्ञाध्यात्मबिन्दुविवरणे सदुपाध्याय श्रीमद्धर्षवर्धनविरचिते प्रथमा द्वात्रिंशिका समाप्ता ॥ ऐं नमः ॥ मङ्गलम् ॥
संवत १९४०ना आश्विनमासे शुक्लपक्षे प्रतिपदातिथौ शनिवासरे लिखितं लैया ब्रा • पुष्करणाज्ञाती लुद्र पदवी कला गुमानीरांमना पुत्र शिवदान पालीका गांव कपडवंजमध्ये लिखावितं भट्टार्क श्री श्रीगुणरत्नसु (सू) रिजीमहाराजनी तरफथी पठनार्तं (थ) बाई अमरत्त || श्री ||
१ कोष्ठान्तर्गतः पाठः ला प्रतौ नास्ति । २ रा प्रतिगता पुष्पिका ।

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122