Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 44
________________ ४३ द्वात्रिंशिका] अध्यात्मबिन्दुः गृहीतेषु सत्सु अध्यवसायविशेषात् त एव ज्ञानादिगुणावारकप्रबलशक्तिमन्तो भवन्ति । एतादृशास्ते कर्मपुद्गलाः किं कुर्वन्तीत्याह -'जीवशक्ति मिति जीवस्य-आत्मनोऽनन्तकेवलज्ञानादिशक्तिं बलादिति'हठात् 'भक्त्वे ति आच्छाद्य 'कुर्वन्ती'ति सुगम आशु' झटिति विकारिणी' विकृतरूपामिति । अयमर्थः - चतुर्दशरज्ज्वात्मकेऽस्मॅिल्लोकेऽनेकविधाः पुद्गलाः सन्ति तेष्वेकप्रकार: कर्मयोग्यपुद्गलानामस्ति । मिथ्यात्वादिहेतुभिर्जीवेन गृहीतास्ते कर्मपुद्गला दृढशक्तियुक्ता भवन्ति, अध्यवसायविशेषैर्गृहीतेषु तेषु प्रकृतिबन्धादिरूपं दायं प्रादुर्भवति इत्थं दृढीभूताश्च ते विमलकेवलज्ञानादिकां जीवशक्तिं सामर्थ्य स्वरूपमिति यावत् विकारवती विरूपां कुर्वन्तीत्यर्थः ॥२॥ अथ पौद्गलिके कर्मणि कथं विकारकारितेति सन्देहं निराकुर्वन्नाह - मद्यान्मौढ्यं धियस्तैक्ष्ण्यं, दृष्टं ब्राह्मीं हविष्यतः । कर्मापि पौद्गलं तद्वत्, कथं न स्याद्विकारकृत् ॥३॥ ___ पद्मप्रभा - 'मद्यादि'त्यादि, 'मद्यान्मौढ्य' मिति, मद्यात्-मदिरायाः सेवनतः, मौढ्यं - मूढता मुग्धभावः, कस्याः ? इत्याह – “धियः' मेधायास्तथा च 'तैक्ष्ण्यं' तीक्ष्णता धिय एवेति बोध्यं, 'दृष्टं' - अनुभूतं कस्येत्याह - 'ब्राह्मी हविष्यतः' ब्राह्मीति स्वनामख्यातौषधिविशेषस्तां हविष्यतो हविरिच्छतीति हविष्यति तस्य वर्तमानकृदन्तं हविष्यन् तस्य ब्राह्मी हवीरूपेणेच्छत इत्यर्थः, ब्राह्मीं भक्षयत इति यावत् । 'कर्मापी ति कर्मआत्मना सह लोहाग्निवत् बद्धं कार्मणशरीरं तत् 'अपिः' समुच्चयार्थे 'पौद्गलं' पुद्गलात्मकम् । पौद्गलमिति कर्मणः स्वरूपदर्शकं विशेषणं 'तद्वदिति मद्यादिवत् 'कथमिति प्रश्ने नस्यात्' न भवेत् विकारकृत्' विकारकारीत्यर्थः, अपि तु विकारकारि भवेदेवेति काकुः । इदमत्र हृदयम्-यथा पुद्गलरूपाया मदिराया पानतो बुद्धेर्मूढभावो ब्राया भक्षणतो बुद्धेस्तीक्ष्णता-प्रकर्षरूपता दृष्टचरा तद्वत् कर्मापि पौद्गलिकं तच्च विकारं जनयत्येवेति ॥३॥ अथ वेदान्तदर्शनसम्मतामविद्यां निराकुर्वन्नाह - अविद्या हि विकारित्वं, जनयेदात्मनः सती। नासती गगनाब्जस्येवासतोऽर्थक्रियाच्युतेः ॥४॥

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122