Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 85
________________ अध्यात्मबिन्दुः [चतुर्थी यदाऽविद्याजन्यं दृढतममभूदन्धतमसं, तदा राग-द्वेषादिषु समभवत् स्वात्मधिषणा। चिरं भेदाभ्यासादधिगतमिदानीं तु विशदं, परं पूर्ण ब्रह्म च्युतविकृतिकमस्मि ध्रुवमहम् ॥७॥ शिखरिणीवृत्तम् । पद्मप्रभा० यदेत्यादि, 'यदे' ति यस्मिन्काले अविद्याजन्यं' अविद्या अतस्मिन् तबुद्धिजनकं मिथ्यात्वं तज्जन्यं-तदुत्पादितं 'अन्धतमसं' अन्धं तमो गाढाज्ञानान्धकारमित्यर्थः प्रागनादौ काले 'दृढतमं' दुरुच्छेद्यत्वात् तबलवद् 'अभूत्' अभवत् 'तदा रागद्वेषादिषु' पूर्वोक्तस्वरूपेषु 'स्वात्मधिषणा' अहंममेति बुद्धिः समभवत्' सञ्जाता। मिथ्यात्वजनिताज्ञानवशादेवास्वेषु रागद्वेषादिषु स्वबुद्धिरितिभावो मोह इति यावत्। 'तु' भेदे विशेषे च, स्वस्मिन् स्वबुद्धिरिति भेदः अथवा शरीरादितः पृथग्भावः स च भेदाभ्यासादिति विशेषः । 'इदानीं' भेदाभ्यासानन्तरं 'चिरं' चिरकालं-दीर्घकालं 'भेदाभ्यासादा'त्मनात्मभेदस्य पुनः पुनः मननाद्धेतोः 'विशदं' सुस्पष्टं याथातथ्येन 'अधिगतं' प्राप्तं ज्ञातमित्यर्थः । किमित्याह - 'परं' निरतिशयत्वात् परमं 'पूर्ण' निर्विकारत्वादविकलं चिदानन्दमयमित्यर्थः । अथ विशेष्यमाह- 'ब्रह्म' शुद्धात्मेत्यर्थः । तदेवं 'अहं' - आत्मतत्त्वं 'ध्रुवं' शाश्वतं 'च्युतविकृतिकं' च्युता रागादिरुपा विकृतिर्यस्मादिति तादृशनिर्विकारमित्यर्थः । 'अस्मि' - भवामि, भेदाभ्यासादेव ॥७॥ आत्मज्ञानादानन्दानुभवमाह - यदज्ञानात् सुप्तः समभवमलं यद्व्यवसितौ, प्रबुद्धस्तत् तत्त्वं चिरमधिगतं मा मदयति । दरिद्रः संप्राप्तधनमिव निधानं प्रतिकलं, समालोक्याघ्रातिं कथमिव न गन्तास्म्यहमतः ॥८॥ शिखरिणीवृत्तम् । पद्मप्रभा० यदित्यादि, 'यदज्ञानादिति यस्य - प्रस्तावादात्मतत्त्वस्याज्ञानात् स्वरूपाव्यवसायाद्धेतोः 'अलं' अत्यर्थं 'सुप्तः' सुप्त इव सुप्तः, सुप्तस्य हि न स्वरुपप्रकाशनं तथात्मविषयाज्ञानवत इति भावः समभवं'इति सञ्जातः निद्रामगमदित्यर्थः। यथा हि सुप्तस्य न वस्तुस्वरूपप्रकाशनं तथात्मविषयाज्ञानवतोऽपीति भावस्तथा यद्व्यवसितौ' यत्प्रकारात्मतत्वविनिश्चये सति 'प्रबुद्धः' सुप्तोत्थित इव समभवं यथा

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122