Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust
View full book text
________________
अध्यात्मबिन्दुः
[चतुर्थी श्रमजनकमेव, यथा तुषाकण्डने न तण्डुललाभः, एवं च तत् श्रमायैव तथा शास्त्रार्थपटुतया नात्मस्वभावलाभश्चेत् सा श्रमायैव, एवं चात्मस्वरूपलाभ एव शास्त्रज्ञानफलं 'तस्मिन्नेकस्मिन्नेव ज्ञाते च सर्वं ज्ञातं भवतीति तदर्थमेव यतनीयमिति भावः ॥१७॥
आत्मनि ज्ञात एव भवोच्छेद इति तदर्थमेव यतनीयमित्याह - भवाबन्धः सर्वोऽनुभवपदवीं यत्र विशति, ग्रहाधीशे व्योमाङ्गणमिव तमस्त्रुट्यतितमाम् । भिदामेति क्षिप्रं निबिडतरहृद्ग्रन्थिरपि तत्, पदं शान्तं भाव्यं सततमुपयुक्तैर्यतिवरैः ॥१८॥ शिखरिणीवृत्तम् ।
पद्मप्रभा० भवाबन्ध' इत्यादि, 'भवाबन्धः' संसाराभिष्वङ्गः 'यत्र' यस्मिन् स्थितौ अनुभवपदवीं' ज्ञानविषयतां विशति-प्राप्नुवति सति आत्मनि ज्ञाते सत्येत्यर्थः, 'सर्वः' समग्रोऽशेषो भवाबन्धः स 'त्रुट्यतितमां' अत्यन्तं नश्यति । तत्र उपमानमाह 'ग्रहाधीशे'सूर्ये 'व्योमाङ्गणं'व्योम-आकाशं विस्तृतत्वादंगणमिव तस्मिन् विशतीत्यनेन सम्बध्यते 'तमः' अन्धकारं 'इव' यथा व्योम्न्युदिते सूर्ये तमोऽत्यन्तं नश्यति तथेत्यर्थः । आत्मज्ञानस्य फलान्तरमप्याह-'भिदामेति' भेदं प्राप्नोति 'क्षिप्रं' त्वरितमेव, केत्याह - 'निबिडतरहृत्ग्रंथिः' निबिडतराऽत्यन्तं गाढा या हृदो-मनसो ग्रन्थिन्थिरिव दुर्भेद्यत्वाद् मिथ्यादर्शनमोहनीयादिकर्मजन्यो रागादिपरिणाम: 'अपिः' समुच्चये 'तत्' तस्माद् 'उपयुक्तैः' ज्ञानाधुपयोगवद्भिरप्रमत्तैः 'यतिवरैः' संयमिभिः 'सततं' अनवरतं 'शान्तं' रागाद्यैरक्षुब्धं 'पदं' मुक्तिपदं शुद्धात्मस्वरूपं वा 'भाव्यं' अनुचिन्त्यमिति । तदुक्तं - भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि, तस्मिन् दृष्टे परावरे ॥१॥ अयमत्र सारांश:-यथा व्योम्नि सूर्ये उदिते सति अंधकारो विनश्यति तथा शुद्धात्मनि ज्ञाते सति सर्वोऽपि संसाराभिष्वङ्गः अत्यन्तं प्रणश्यति। अपरं च शुद्धात्मनि ज्ञाते सति रागादीनां निबिडतरा हृद्ग्रंथिः त्वरितमेव भेदमुपैति तस्माद् ज्ञानाधुपयोगवद्भिः संयमिभिः सततं शान्तं पदं अनुचिन्तनीयमिति ॥१८॥
रागादिनाशासाधारणकारणामात्मज्ञानमित्याहस्वरूपे विश्रान्ति अयति यदि चैतन्यमचला, न तु ज्ञेयासत्त्या व्रजति विकृति काञ्चन मनाक् ।

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122