Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 94
________________ द्वात्रिंशिका] अध्यात्मबिन्दुः ततो राग-द्वेषद्वितयमिदमप्राप्तविषयं, क्षयं दाह्याभावादहन इव गच्छत्यतितमाम् ॥१९॥ शिखरिणीवृत्तम् । पद्मप्रभा० 'स्वरूपे' इत्यादि, स्वरूपे' शुद्धात्मनि विश्रान्ति' विश्रामं, 'श्रयति' आश्रयं करोति, 'यदि' चेत् 'चैतन्यं' बुद्धिः 'अचलां' निश्चलां, एतेषां पदानां सम्मिलितोऽयमर्थः - यदि चैतन्यं स्थिरां-अप्रच्युतां-विश्रान्ति श्रयति-अनवरतमात्मध्यान - परा भवतीत्यर्थः । तया 'ज्ञेयासत्त्या' ज्ञेयस्य-स्वस्वरूपस्य आसत्त्या सान्निध्यतो 'मनाक्'इषदपि काञ्चन' कामपि विकृति' विकारभाव 'न तु' नैव व्रजति' प्राप्नोति 'ततः तेन हेतुना 'इदं' सर्वजीवसुलभं रागद्वेषद्वितयं' राग-द्वेषयोर्युगलं 'अतितमाम्' एकान्तिकात्यन्तिक-रूपेण 'क्षयं'-नाशं 'गच्छति'-प्राप्नोति, 'अप्राप्तविषयं' रागद्वेषयोर्विषयाणामप्राप्त्यात् तत्र दृष्टान्तमाह- 'दाह्याभावात्' दाह्यस्य दाहविषयस्य काष्ठादेरभावाद् 'दहनो'अग्निरिव । यदा प्रथमं बुद्धिरात्मनिष्ठा निर्विकारा च भवति ततथाश्रयाभावादेव रागाद्यभाव इति भावः ॥१९॥ आत्मैव भजनीय इत्यत्रोपपत्तिमाह - महानन्दस्थानं न हि परमतस्त्रस्यसि यतः, प्रविश्वस्तो यस्मिन् भयपदमतो नान्यदपरम् । ततः स्वात्मारामे क्षणमपि भजस्व स्थितिमहो, यतः शीर्यन्तेऽमी भ्रमनिचितकर्माणुनिकराः ॥२०॥ शिखरिणीवृत्तम् । पद्मप्रभा० 'महानन्दस्थान' मित्यादि 'यतः'-यस्मात् सकाशात् त्वं त्रस्यसि' उद्वेगं प्राप्नोसि । कुत इत्याह - दुष्करनानाक्रियाविधानतः 'अत'स्तस्मादात्मन इति प्रस्तावात् बोध्यं, 'परं' उत्कृष्टं महानन्दस्थानं' निरतिशयत्वादखण्डत्वात् शाश्वतत्वाच्च सर्वमहान् य आनन्दस्तस्य 'स्थानं' आश्रयो 'न हि' नैवास्तीति शेषः । आत्मन आनन्दमयत्वादिति बोध्यम् । तथा 'यस्मिन्' यत्र शब्दादिविषये 'प्रविश्वस्तः' प्रकर्षेण विश्वासमाप्तः कृतप्रत्ययोऽसीति शेषः । अतः' अस्मात् शब्दादिविषयाद् अन्यद्' भिन्नं अपरं द्वितीयं 'भयपदं' भयस्थानं 'न' नास्ति जन्ममरणादिदुःखजनकत्वादिति ध्येयम् । अन्यदित्यैतावतैवेष्टसिद्धेरपरमित्युक्तिर्लोके तथा व्यवहारादिति बोध्यम् । 'ततः' तस्मात् कारणात् स्वात्मारामे' स्वस्यात्मा स एवानन्दप्रदत्वादारामस्तत्र'क्षणमपि'अल्पकालमपि

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122