Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 92
________________ द्वात्रिंशिका] अध्यात्मबिन्दुः गुरुरिव यो भवः संसारस्ततो भवत् - जायमानं यद् दुःखं तदैवाविद्यात्मकनिद्रोपयोगित्वात् तलिनं तत्र 'दृढविद्यानिद्रापरिगतविवेकेक्षणपुटाः' दृढा दुरुच्छेद्यत्वात् प्रबला या अविद्या-मिथ्याज्ञानं सैव ज्ञानेक्षणनिमीलनाद्धेतोनिद्रेव निद्रा तया परिगतमाक्रान्तं विवेके क्षणस्य पुटं देहात्मभेददृष्टिपुटं येषां ते तादृशा अविद्यानिद्रावशात् वस्तुयाथाम्यावबोधासमर्थाश्चिरमनेकभवान् यावत् 'सुप्ताः'-निद्रायिताः सुप्तवत् ज्ञानचैतन्यस्फुरणरहिताः 'अहमिति देहादौ अहमित्येवंप्रकारं, चो भिन्नक्रमः मामकमित्यनन्तरं योज्यः ततश्च परं' स्वभिन्नं पुत्रकलत्रादिकं विषयादिकं च मामकमिति' ममेदमित्येवं व्यवस्यन्तः'व्यवसायं कुर्वन्तः 'सन्तः'-सुगमं भृशं' अत्यर्थं स्वप्नायन्ते' स्वप्नदशामनुभवन्ति देहे आत्मबुद्धिः पुत्रादौ च ममेतिबुद्धिर्व्यवसाय: स च अयथार्थः, एवं च यथा स्वप्नेऽसद्भूता क्रिया तथा भवेऽपि अविद्यावशादुक्तव्यवसायात्मिका क्रियासद्भूतैवेति भावः ॥१६॥ शास्त्रस्यात्मज्ञानमेव प्रयोजनमित्याह - प्रविज्ञाते यस्मिन्नतिशयितचिच्छक्तिकवलीकृते त्रैलोक्ये किं समवगमयोग्यं किल परम् । अविज्ञातेत्वस्मिन्नतिनिशितशास्त्रार्थपटुता, श्रमायैवात्यन्तं भ्रमकृततुषाकण्डनमिव ॥१७॥ शिखरिणीवृत्तम् । पद्मप्रभा० 'प्रविज्ञाते' इत्यादि, 'अतिशयितचिच्छक्तिकवलीकृतत्रैलोक्ये' अतिशयिता-सर्वोत्कृष्टा-परमेत्यर्थः या चिच्छक्तिः चिदेव शक्तिस्तया कवलीकृतंविषयभावेनाभ्यन्तरीकृतं त्रैलोक्यं-जगत्पदार्थसार्थं येन स तस्मिन् यत्प्रकारेऽऽत्मनि प्रविज्ञाते' प्रकर्षण-साक्षात्रूपतया विशेषेण यथावस्थितरूपेण ज्ञाते सति, किमित्याक्षेपे, परमन्यत् 'समवगमयोग्यं' ज्ञेयं, 'किं' किल निश्चयेनावशिष्यते? किमपि नावशिष्यत इत्यर्थः । तस्मिन्नेकस्मिन् ज्ञाते सर्वं ज्ञातं भवति, तदुक्तं-'यस्य भासा सर्वमिदं विभाती'ति भावः, विपक्षेऽकृतकृत्यतामाह- तुः पूर्वस्मात् भेदे, 'अविज्ञाते' अस्मिन्नुक्तात्मतत्त्वेऽविज्ञाते यथावस्थितरूपेणाज्ञाते सति 'अतिनिशितशास्त्रार्थपटुता' अत्यन्तं निशिता-तीक्ष्णा परपराजयसमर्था शास्त्रार्थे-वादादौ पटुता-प्रावीण्यं भ्रमकृततुषाकण्डनमिव' भ्रमकृतं भ्रान्त्या निष्पादितं यत् तुषाकण्डनं-तुषा-बुशावहननं तदिवा 'त्यन्तंश्रमायैव'-केवलं

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122