Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 91
________________ अध्यात्मबिन्दुः शुद्धस्याप्यात्मनो कथं भवभ्रमणमित्याशङ्कायामाह - यथा रज्जौ सर्पभ्रममतिरविज्ञानजनिता, क्रियाहेतुर्भूत्वा बुधमपि चिरं व्याकुलयति । तथा देहेऽप्यस्मिन्नहमिति विपर्यस्तधिषणा, भवभ्रान्तेर्मूलं परमपुरुषस्यापि समभूत् ॥१५॥ शिखरिणीवृत्तम् । पद्मप्रभा० ‘यथे'त्यादि, 'यथा' येनप्रकारेण 'रज्जौ ' दवरके ' अविज्ञानजनिता' रज्जुविषयकविशदज्ञानाभावजन्या 'सर्पभ्रममतिः' अतस्मिंस्तद्ग्रहस्य भ्रमत्वात् सर्पभ्रमात्मिका बुद्धिः सर्पभ्रमात्मकोऽयथार्थोऽनुभवः 'क्रियाहेतुः ' क्रियाया भयाद् अपसर्पणादिरुपाया हेतुर्जनिका ' भूत्वा' सम्पद्य 'बुधं' बुद्धिमन्तमपि रज्जुसर्पयोर्विवेकज्ञमपि, ‘अपि’ना अबुधस्य तु कथैव केति द्योत्यते ' चिरं' दीर्घकालं 'व्याकुलयति' अस्वस्थचित्तं करोति भयभीतं करोतीति यावत् । ' तथा ' तेन प्रकारेण 'अस्मिन् ' भोगायतनतया सन्निकृष्टे ‘देहे' शरीरे' ऽपि 'ना आस्तां रज्जौ सर्पभ्रममतिरित्यपेरर्थः । 'अहमि 'ति अहमित्येवं प्रकारा 'विपर्यस्ता' भ्रमात्मिका 'धिषणा' बुद्धिः 'परमपुरुषस्यापि' परमो निश्चयनयेन शुद्धो यः पुरुषः आत्मा तस्यापि परमात्मनोऽपि अज्ञानदशायां सम्यक्त्वाप्तेः प्राक् । अपिना संसारोदरवर्तिनां जीवानां परिग्रहः, 'भवभ्रान्तेः ' भवपरम्परायाः भवभ्रमणस्य मूलं' बीजं 'समभूत्' संजातम् । शुद्धस्याप्यात्मनः देहात्माभिमानतयैव भवपरम्परेत्याशयः ॥१५॥ ९० [ चतुर्थी भवभृत्स्थितिमाह चिरं सुप्ता ह्येते गुरुभवभवद्दुः खतलिने, दृढाविद्यानिद्रापरिगतविवेकेक्षणपुटाः । भृशं स्वप्नायन्तेऽहमिति च परं मामकमिति, व्यवस्यन्तः सन्तः कुगतिभवनेऽमी भवभृतः ॥ १६ ॥ शिखरिणीवृत्तम् । पद्मप्रभा० 'चिर' मित्यादि ' एतेऽमी' दृश्यमाना अज्ञानित्वात् विप्रकृष्टा भवभृतः प्राणिनः कुगतिभवने कुगतिर्नरकादिस्तदेवाश्रयत्वात् भवनं तत्राज्ञानसद्भावे मनुष्यादिगतिरपि कुगतिरेव दुर्गतिसाधनत्वादिति ध्येयम्।'गुरुभवभवद्दुःखतलिने' गुरुः कर्मभाराक्रान्तत्वात्

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122