Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 89
________________ ८८ अध्यात्मबिन्दुः - [चतुर्थी अखिलानि-अशेषाणि यानि मतानि वादास्तत्समर्थकानि शास्त्राणि च 'समभ्यस्यन्तां' रारट्यन्तां किले'त्यलीके तेषां शास्त्राभ्यासो मिथ्येत्याशयः । तत्र बीजमाह - 'यदि'चेत् ततस्तादृशशास्त्राभ्यासतो 'वपुषि' देहे 'आत्मभ्रान्तिः' स्वत्वभ्रमो देहे आत्माभिमानमित्यर्थः, 'न विनिवृत्ता' न विनष्टा 'विमुच्यन्ते किमु' इति काकुः, नैव विमुच्यन्त इत्यर्थः, यावद्धि देहात्मबुद्धिस्तावदेव संसारस्तद् विनाशे च मोक्ष इत्यत्र न केषामपि विमतिरिति मत्वैतदेव सामान्येन समर्थयति 'पाठो' पाठ:- पाठमात्रं मननहीनोऽभ्यास इत्यर्थः, न भवति कदाचित् गुणकरः" न भवति कदापि साध्यसाधक आत्मतत्त्वज्ञानजनक इति यावत् । आत्माऽयं देहतो भिन्नोः, मनसा वचसाऽपि च । कर्मतोऽपि सदा भिन्नः पुद्गलेन तथैव च ॥१॥ प्राप्तं यैर्भेदविज्ञानं, विमलं देहदेहिनाम् । तैः समाप्तं समत्वं वै, केवलज्ञानदायकम् ॥२॥ प्रार्जितं प्रभूतं ज्ञानं, महाक्लेशेन यत्त्वया । भेदज्ञानं परं नाप्तं, सर्वं तत्तु निरर्थकम् ॥३॥ जिनवचसैव तत्त्वज्ञानमित्याह - अविद्यासंस्काराद् बहुतरककालाद् यदभवच्च्युतं मे स्वं रूपं तदिदमुपलब्धं खलु मया । विविक्तं चिद्भासा परिगतमनन्तं सुविशदं, स्वतन्त्रं तत्रेदं जयति ननु बीजं जिनवचः ॥१३॥ शिखरिणीवृत्तम् । पद्मप्रभा० अविद्येत्यादि 'अविद्यासंस्कारादिति - अविद्यायाः - अज्ञानस्य, संस्कारो-वासना तद्वशात्तद्धेतोः स च संस्कारोऽनादिकालत एवेत्याह - 'बहुतरककालात्' अनेकानेकजन्माभ्यस्ततया चिरकालोपार्जितात् स्वार्थे कः प्रत्ययः । 'यत्' वक्ष्यमाणं 'मे' मम प्रबुद्धस्य मुमुक्षोः 'स्वं' निजं 'रूप' स्वरूपं शुद्धात्मस्वरूपमित्यर्थः, 'च्युतं' विस्मृतवदभवत् तदुक्तप्रकारमिदमधुनानुभूयमानं 'मया' मुमुक्षुणा 'उपलब्ध' प्राप्तं, 'खल्वि'ति निश्चये, निश्चयेन प्राप्तमित्यर्थः, यादृशं च स्वरूपं पूर्वमप्राप्तमिदानीं च प्राप्तं तदाह - 'विविक्तं' देहादितः पृथग् 'चिद्भासा' ज्ञानात्मकप्रकाशेन 'परिंगतं' व्याप्तं

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122