Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 87
________________ ८६ अध्यात्मबिन्दुः - [चतुर्थी आत्मानवबोधे तपःप्रभृतीनामकिञ्चित्करत्वमाहतपश्चण्डं तीव्रव्रतकलनमत्युल्बणपरी - षहेभ्योऽभीरुत्वं क्षितिशयनमुख्यः परिकरः। यदज्ञानान्निर्नायक इव हि सेनाचरगणः, समग्रो व्यर्थः स्यात् तदिदमहमस्म्यद्भुतमहः ॥१०॥ शिखरिणीवृत्तम् । पद्मप्रभा० 'तप' इत्यादि, 'तपः' अनशनादिद्वादशविधं 'चण्ड'-उग्रं मासक्षपणादिकं तस्याचरणमित्यर्थः 'तीव्रव्रतकलनं' तीव्राणां दुष्करत्वादुत्कृष्टानां व्रतानामहिंसादीनां कलनं - आश्रयणं 'अत्युल्बणपरीषहेभ्यः' अत्युल्बणेभ्यःसुदुःसहेभ्यः परीषहेभ्यो द्वाविंशतिक्षुत्तृडादिभ्यः ख्यातेभ्यो अभीरुत्वं'निर्भयत्वमाभिमुख्येन परीषहसहनमिति संमीलितोऽर्थः 'क्षितिशयनमुख्यः' क्षितिशयनं-भूमिशयनादिमुख्यं यत्र तादृशः परिकरः' साधनसमुदायो व्यवहारचारित्रधर्माराधनरूप इत्यर्थः 'समग्रः' सकल: 'यदज्ञानात्' यस्य शुद्धात्मभूतमहसोऽज्ञानात्-अलाभात् 'व्यर्थः' निष्फलस्तपःप्रभृतिष्वात्मज्ञानमेव मुख्यं फलं तदभावे तपःप्रभृतीनां निष्फलत्वं, स्वर्गादिकं चानुषङ्गिकमनिष्टं चेति मुख्यफलेनैव फलवत्त्वमेष्टव्यमित्याशयः । तत्र दृष्टान्तमाह-'हि' इति निदर्शने 'निर्नायकः' निर्गतो नायको यस्मादिति निर्मायको नायकरहितः 'सेनाचरगणः' सैन्यगणः सैन्यसमूह इव, नायकाभावदशायां बहून्यपि सैन्यानि अकिञ्चित्कराणीति यथा स्फुटं तथैवात्मज्ञानाभावदशायां तपःप्रभृतीन्यप्यकिञ्चित्कराणीति बोध्यम् । तत् पदसूचितं विवृण्वन्नाह - 'तदिति तत्-स्वाज्ञाने उक्तसर्ववैयर्थ्यांपादकं 'इदं' अहंपदवाच्यं प्रत्यक्षं भासमानं 'अद्भुत' अद्भुतमद्वितीयमनतिशयं च 'महः' ज्योतिस्तद्रूपमहमस्मि। आत्मतत्त्वसंवेदनं विना तपश्चरणादिकं सर्वं निरर्थकमित्याशयः॥१०॥ अत एव लौकिकसुखमुपेक्ष्यात्मसुखार्थमेव यतनीयमित्याह - तदन्वेष्यं तत्त्वं सततमत्युत्कटतर - स्फुरत्तेजःपुञ्जप्रदलितदृढाविद्यममलम् । यदास्वादाद् भान्ति त्रिदशपतिचक्रित्वपदवी - सुखास्वादाः क्षारोदकवदमृताने ध्रुवममी ॥११॥ शिखरिणीवृत्तम् ।

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122