Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust
View full book text
________________
९४
अध्यात्मबिन्दुः
[ चतुर्थी
'भजस्व' सेवस्व'स्थितिं 'स्थिरतां' अहो' इति कोमलामन्त्रणे, आत्मानमल्पकालमप्यनुचिन्तयेत्यर्थः । ‘यतः' यस्मात् कारणात् 'अमी' आत्मनिबद्धाऽऽत्मनि संश्लिष्टा 'भ्रमनिचितकर्माणुनिकराः ' भ्रमो मिथ्यात्वं तद्वशात् निचिता:-अर्जिताः कर्माणूनां कर्मपुद्गलानां निकराः समूहाः शीर्यन्ते परिशटन्ति । आत्मध्यानेनावश्यं कर्मपरिशाट इति तद्यथाशक्ति अल्पकालमपि मुमुक्षुणा विधेयं अत्यन्तमधुरस्वादमल्पमपि पयः पीतं पुनस्तत्पानरुचि जनयति तथाल्पकालमप्यादृतं ध्यानं विशेषध्यानरुचिं जनयतीति
भावः ॥२०॥
बन्धमोक्षयोः स्वस्यैव हेतुत्वमाह
भवारण्यभ्रान्तौ स्वयमजनि हेतुः स्व-परयोरविज्ञानात् स्वस्मिन् यदतनुत कर्तृत्वधिषणाम् । विमोक्षेऽपि स्वस्मिन् स्थितिपरिणतेर्यत्स्वयमसा
-
वतः शास्ता स्वस्य स्वयमयमतोऽन्यः किल नहि ॥ २१ ॥ शिखरिणीवृत्तम् । पद्मप्रभा० ‘भवारण्यभ्रान्तौ ' इत्यादि, भव एव नानादुःखकारणत्वादरण्यं वनमिव तत्र भ्रान्तिः-भ्रमणं तत्र भवपरम्परायामित्यर्थः 'स्वयं' आत्मनैव 'हेतुः' कारणं 'अजनि ' • अभूदात्मेति शेषः । कुत इति चेत् तत्राह' यद्' यस्मात् ' स्वपरयोः ' आत्मतद्भिन्नयोर्विषये 'अविज्ञानात् ' विशेषेण यथावस्थितरूपेण ज्ञानस्य स्वपरविवेकात्मकस्याभावाद्धेतोः 'स्वस्मि'न्नकर्तुरपि स्वस्य विषये 'कर्तृत्वधिषणां' कर्तृत्वादिबुद्धि 'अतनुत' अकरोत् स्वपरभेदाग्रहादात्मनि कर्तृत्वादिबुद्धिरेव भवपरम्पराहेतुरित्याशयः । अथ 'विमोक्षेऽपि ' भवपरम्परापरिहारेऽपि अपिना उक्तभ्रमणे स्वस्य हेतुत्वसमुच्चयो यद् - यस्मात् ' स्वस्मिन् ' स्वविषये ‘स्थितिपरिणतेः' स्थिरतापरिणामवशात् स्वस्यानवरतमनुचिन्तनेनेत्यर्थः । 'असा 'वात्मा 'स्वय 'मात्मनैव हेतुरिति सम्बध्यते स्थिरात्मचिन्तनेन भवपरम्परोच्छेद इत्याशयः । अत उक्तरीत्या बन्धमोक्षयोः स्वस्यैव हेतुत्वाद्धेतोरयमात्मा 'स्वस्य' निजस्य स्वयमात्मनैव ‘शास्ता' शुभाशुभनियामकोऽतो निजात्मनः सकाशादन्योऽपरः कोऽपि ‘किले 'ति वाक्यालङ्कारे‘नहि' नैवेति भावः । तदुक्तं - आत्मैव स्वात्मनो बन्धुः आत्मैव रिपुरात्मनः । सुहृदात्मात्मनस्तस्य येनात्मैवात्मना जितः ||२१||

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122