Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust
View full book text
________________
द्वात्रिंशिका]
अध्यात्मबिन्दुः चिन्मयमितिसंमीलितोऽर्थः । पुनःकीदृशं 'अनन्तं' अविनाशि ‘सुविशदं' निर्मलं, पुन:कीदृशं तदित्याह - 'स्वतन्त्रं' स्वाधीनं कर्मपारतन्त्र्यरहितमित्यर्थः । 'तत्र' - तादृशस्वरूपोपलम्भ 'इदं' अभ्यस्यमानत्वादतिसंनिकृष्टं 'जिनवचः' जिनोपदेशो 'बीज' निदानं कारणं 'ननु' इति निश्चयेन 'जयति' सर्वोत्क र्षेण वर्तते, जिनवचनाभ्यासादेव स्वरूपलाभोऽन्यथात्व-विद्यावशात् स्वरूपच्युतिरेवेति जिनवचसि मुमुक्षुणा महानादरो विधेय इति भावः । तदुक्तं अयोगव्यवच्छेदिकायां - यदीयसम्यक्त्वबलात् प्रतीमो, भवादृशानां परमस्वभावम् । कुवासनापाशविनाशनाय, नमोऽस्तु तस्मै तव शासनाय ॥१३॥
शिवाप्तेः सरणिमाह - मथित्वात्मात्मानं भवति परमज्योतिरचिराद्यथा घृष्ट्वात्मानं क्षितिरुह इहैतिज्वलनताम् । अतः शुद्धे ब्रह्मण्यविरतनिमग्नाऽमलदृशां शिवाप्तिनिर्दिष्टा सरणिरपरा काचन न हि ॥१४॥ शिखरिणीवृत्तम् ।
पद्मप्रभा० मथित्वे' त्यादि 'मथित्वा'-पुनः पुन:चिन्तयित्वा आलोड्येत्यर्थः, 'आत्मात्मानं' आत्मा - निजं शुद्धरूपं पुनः पुनश्चिन्तयित्वा निरन्तरं ध्यात्वेत्याशयः 'अचिरात्' झटित्येव 'परमज्योतिः' केवलज्ञानप्रकाशात्मा 'भवति' सम्पद्यते । अत्र दृष्टान्तमाह - यथा - येन प्रकारेण इह' - अस्मिँल्लोके क्षितिरुहः 'वृक्षः अरणिकाष्ठादिः 'आत्मानं' स्वं घृष्ट्वा पुनः पुनः घर्षणं प्रापय्य 'ज्वलनतां' अग्निरूपतामेति-गच्छतिप्राप्नोति, प्रसिद्धो हि लोके अरण्यादिकाष्ठादीनां घर्षणादग्नेरुद्भवः । एतेन किं? तबाह - 'अतो'अस्मात् कारणादात्ममन्थनेनैवात्मलाभाद्धेतोः 'शुद्धे ब्रह्मणि'चिदानन्दमये आत्मनि 'अविरत' अनवरतं 'निमग्नाऽमलदृशां' प्रसक्ता अमला-शुद्धा दृग-दृष्टिनिरूपा येषां तेषामेव, 'सर्वं वाक्यं सावधारणमिति' न्यायादवधारणावगतिः, 'शिवाप्तिः' निःश्रेयसलाभो 'निर्दिष्टा' प्रतिपादिता, अत्रोपायान्तरं निषेधयति 'हि' निश्चयेन 'अपरा' उक्तप्रकारातिरिक्ता - भिन्ना 'काचन' काऽपि 'सरणिः' पद्धतिर्मार्गो वा न निर्दिष्टा न प्रतिपादिता शास्त्रेष्वित्याशयः । आत्मध्यानादेवाऽऽत्मस्वरूपलाभो नान्यथा, तच्च ध्यानं श्रुतादेव स्वभ्यस्तादिति निर्गलितोऽर्थः ॥१४॥

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122