Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 83
________________ अध्यात्मबिन्दुः [चतुर्थी सम्यग्दर्शनाद्यात्मिकां स्थितिं'-अवस्थां 'संसूत्र्य'एकात्मतां गतामिव कृत्वा प्रत्येकस्य सम्यग्दर्शनादेर्मार्गकदेशरूपत्वात् सम्मिलितानामेव तेषां मार्गरूपत्वात् दर्शनादीनि त्रिण्यपि समुपाऱ्यांनीत्यर्थः 'यो' यो जीवो विहरति' विचरति । ईदृशश्च निःसङ्ग एव भवतीति स्वरूपविशेषणान्तरमाह - 'निखिलान्यस्वसंस्पर्शशून्यः' निखिला-अशेषा येऽन्ये आत्मभिन्ना विषयाद्याः पदार्थास्तेषु यः स्वसंस्पर्श:-स्वत्वाभिमानं ममत्वं मोहो वेति यावत्, तेन शून्यो निःसङ्गो निर्मोहश्चेत्याशयः । तद्दी'मुक्तिदर्शी-शुद्धस्वरूपरुचिः तत्सतत्त्वा०' इत्यादि तस्यैव - शुद्धस्वरूपस्यैव सतत्त्वं - यथार्थानुचरणं-सेवनं तथा तस्यैव कलनंज्ञानमिति । एतत्त्रये आसमन्ताद् ‘बद्धकेलिः' बद्धा क्रीडा येन स तथा 'किले' ति वाक्यालङ्कारे 'असौ' शुद्धात्मतत्त्वरुचिरमणताविबोधपरायणो 'यत्किञ्चित्' आहारविहारनिहारादिकं 'कर्म'- क्रियां प्रवृत्तिं 'कुर्यात्' आचरेत् 'तदखिलं' तत्सर्वं निश्चितं 'निर्जरैवेति क्षपणा एव कर्मपरिशाटनसाधनत्वात् कारणे कार्योपचारात् कर्मक्षयहेतुरेवेति उदितं' प्रतिपादितमिति । सम्यग्दर्शनादिसम्पन्नो निःसङ्ग आराधनापरायणो मुमुक्षुर्यदपि कर्म करोति तत्तस्य निर्जरासाधनमेव न तु बन्धसाधनं, कर्मबन्धकारणस्य सङ्गस्याभावात् कर्मक्षयकारणीभूतचारित्रादेश्च सद्भावादिति भावः ॥४॥ भगवद्वचनपरिणतिरेवासङ्गतानुभवद्वारेण निर्जरा सम्पादिकेति तन्माहात्म्यमाह - अहं कर्ता भोक्तेत्यनवरतमिहाज्ञानमुदभूदियत्कालं शुद्धानुभवनरहस्यं ह्यविदुषाम् । इदानी सार्वज्ञवचनममृतादप्यतिरसं, चिरं पायं पायं निचितमपि तन्नो निरगलत् ॥५॥ शिखरिणीवृत्तम् । पद्मप्रभा० अहमित्यादि, 'अहं'-आत्मा' कर्ते 'ति कर्ता नानाविधकर्मसम्पादकः 'भोक्तेति' भोक्ता नानाविधकर्मफलानामनुभवकर्ता, इत्येवं प्रकारं 'इह' अस्मिँल्लोके संसारे 'अज्ञानं' मिथ्याज्ञानं 'उदभूत्' उत्पन्नं 'अनवरतं' सततमिति क्रियाविशेषणम् । कदा? इत्याह - ‘इयत्कालं' अद्यावधीत्यर्थः केषां ? इत्याह - 'शुद्धानुभवनरहस्यं' शुद्धात्मस्वरूपम् अविदुषाम्'अजानतां सम्यग्ज्ञानशून्यानामित्यर्थः । 'हि' इति याथातथ्ये, यथार्थमेतदित्यर्थः । इदानीं' इति अस्मिन् काले सर्वज्ञवचनपानानन्तरमित्यर्थः 'सार्वज्ञं' सर्वज्ञेन वीतरागेण प्रज्ञप्तं प्रोक्तं वा नत्वसर्वहरुक्तमिति ध्वनिः, किं तदित्याह - 'वचनं'

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122