Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 81
________________ ८० अध्यात्मबिन्दुः प्रत्यग्ज्योतिषः स्वरूपमाह कर्तृत्वादिविकारभारविगमाद् बिभ्रत् सनत् सुस्थतां, त्रुट्यद्बन्धचतुष्टयोल्लसदमन्दानन्दसंवर्मितम् । शुद्धं शान्तमनन्तमप्रतिहतं विष्वग् विचित्रोल्लसद्ज्ञेयाकारकरम्बितं निरुपधि ज्योतिः समुज्जृम्भते ॥२॥ शार्दूलविक्रीडित वृत्तम् । पद्मप्रभा० ‘कर्तृत्वादी'त्यादि, 'कर्तृत्वादिविकारभारविगमाद्' कर्तृत्वादयः, आदिना भोक्तृत्वादीनां परिग्रहः, त एव 'विकाराः ' परनिमित्तजत्वात् परोक्षत्वात् दोषा इव दोषा तेषां यो ' भारः 'अतिशयस्तस्य 'विगमात् ' प्रागुक्तद्वात्रिंशिकारीत्या स्वरूपचिन्तनेन कृत्वा निराकरणाद्धेतोः ‘सनत्'- सदा ' सुस्थतां' - स्वरूपसमवस्थानं 'बिभ्रत्' - धारयत् स्वरूपस्थमित्यर्थः, स्वरूपमात्र विश्रान्तमिति यावत् । पुनः कीदृशमित्याह - त्रुट्यदित्यादि 'त्रुट्यत्' विनश्यद् यद्' बन्धचतुष्टयं' - बन्धानां चतुष्टयं कर्मणां प्रकृतिस्थितिरसप्रदेशात्मकं बद्धस्पृष्टनिधत्तनिकाचितरूपं वा तेन' उल्लसन्' - प्रादुर्भवन्यो 'अमन्दानन्दः ' निरतिशयानन्दस्तेन ‘संवर्मितं ' - कञ्चुकितं निरतिशयानन्दमयमित्यर्थः । सर्वोऽपि हि बन्धविगमे आनन्दतीति । 'शुद्धं' - कर्ममलरहितत्वात् शुचिः, पुनः कीदृशमित्याह'शान्तं' अक्षुब्धं क्षोभजनकरागाद्यभावात् । पुनः कीदृशमित्याह - 'अनन्तं'- अपरिमेयं पुनः कीदृशमित्याह - 'अप्रतिहतं' जन्ममरणादिप्रतिघातशून्यं, पुनः कीदृशमित्याह - 'विष्वक्' समन्तात् 'विचित्रोल्लसद्ज्ञेयाकारकरम्बितं' विचित्रा - विविधा उल्लसन्तोभासमाना ये ज्ञेयाकारास्तैः करम्बितं सम्पृक्तं, शुद्धचिद्धि सर्वविषयावभासि भवतीति ध्येयम् । तथा 'निरुपधि' - निर्व्याजं - स्वाभाविकं 'ज्योतिः समुज्जृम्भते' - सम्यक् प्रकाशते ॥२॥ 1 तदेव ज्योतिर्विशेषयति सर्वद्रव्यविवर्तचक्रमखिलं यद् बोधवारांनिधा वेकांशस्थमिवोच्चकास्ति कलयच्छुद्धत्वमाकालिकम् । [ चतुर्थी - प्रोद्यत्त्विड्भरलीढविश्वभुवनाभोगं भरादुल्ल च्छान्तं तत्परमात्मतत्त्वमुदितानन्दं समुद्योतते ॥३॥ शार्दूलविक्रीडितं वृत्तम्।

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122