Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust
View full book text
________________
द्वात्रिंशिका]
अध्यात्मबिन्दुः
चतुर्थी द्वात्रिंशिका
अथ शुद्धस्वरूपप्रकाशिका नाम्नी चतुर्थी द्वात्रिंशिका प्रारभ्यते-तत्र च उक्तप्रकारेणात्मस्वरूपभावनान्तरं तत्फलभूतं, शुद्धस्वरूपं आत्मानं विशदतया विवृण्वन्नाह
प्रत्यग्ज्योतिर्जयति तदिदं पिष्टकर्मप्रपञ्चं, दूरोन्मग्नं घनतरविभावार्णवावर्तवेगात् । प्रोद्यत्तेजःप्रकरदलितध्वान्तकर्माष्टकाष्ठो -, त्फुल्लत्काष्ठावदननलिनं किन्नु मार्तण्डबिम्बम् ॥१॥ मन्दाक्रान्तावृत्तम् ।
पद्मप्रभा-'प्रत्यगि'त्यादि, 'प्रत्यग्ज्योतिः' अन्तरात्मा शुद्धचिदानन्दस्वरूपश्चेतनः 'तत्' पूर्वद्वात्रिंशिकोक्तस्वरूपं 'इदं' अहंपदवाच्यतयानुभूयमानं 'पिष्टकर्मप्रपञ्चं' पिष्टो दलितः कर्मणां प्रपञ्चो विस्तारो येन तादृशं कर्मसत्तारहितमित्यर्थः । ततः 'दूरोन्मग्नं' अत्यन्तमुद्बुडितं । कुत इत्याह - 'घनतरविभावार्णवावर्तवेगात्' घनतरा अत्यन्तं निबिडा ये विभावा रागादयस्त एव दुस्तरत्वादर्णवः सागर इव तस्य य आवर्तः निवर्तनं तस्य यो वेगः-रयस्तस्मात्, यथाहि समुद्रावर्तवेगात् किमपि वस्तुजातं निमग्नं सदुन्मग्नं भवति तथेदं प्रत्यग्ज्योतिरपि कर्मप्रपञ्चविगमाद् विभावपरम्पराशून्यं सत् स्वभावसुन्दरमाविर्भवतीति भावः । सा च स्थितिः सर्वोत्कृष्टा तदाह - 'जयति' सर्वोत्कर्षेण वर्तते । आत्मनः सा स्थितिरेव सर्वोत्कृष्टा परमपुरुषार्थरूपेत्यर्थः । तथास्थितं प्रत्यग्ज्योतिरुत्प्रेक्ष्यते 'प्रोद्यत्' इत्यादिना प्रकर्षेण उद्यन् दिक्षुविदिक्षु प्रसरन् यस्तेजसां प्रभाणां प्रकरो राशिस्तेन दलितं-नाशितं, ध्वान्तं तमोरूपं स्वरूपप्रकाशविरोधित्वात्, ध्वान्तरुपा कर्माष्टकानां काष्ठा-परा स्थितिः, अत एव 'उत्फुल्लदिति विकसमानानि 'काष्ठावदनानि' दिङ् मुखान्येव 'नलीनानि' कमलानि यस्य तत् 'किन्नु ?' इति उत्प्रेक्षायां, आह 'मार्तण्डबिम्बं' - सूर्यमण्डलं तस्य सूर्यमण्डलस्य तेज:प्रकरेण यथा ध्वान्तं नश्यति, दिक्कमलानि च विकसन्ति तथा प्रत्यग्ज्योतिषोऽपि ज्ञानप्रभाभिः कर्माष्टकं नश्यति स्वरूपं च प्रकाशते ॥१॥

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122