Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust
View full book text
________________
द्वात्रिंशिका ]
विषयेष्वासक्तिं निन्दति -
अध्यात्मबिन्दुः
भावाः स्वरूपविश्रान्ता लोके सर्वेऽत्र यद्यमी । मूढो हन्ताहमेवैको, रज्ये यत्परवस्तुषु ॥३०॥
—
पद्मप्रभा० ‘भावा' इत्यादि, 'भावा:' भवनशीला भावा: पदार्थाः द्रव्यपर्यायाः विधेयांशमाह - 'स्वरूपविश्रान्ताः ' स्वरूपे - स्वस्मिन् विश्रान्ताः स्थिताः - स्वप्रतिष्ठा इत्यर्थः, आधारविशेषाकाङ्क्षां निराकुर्वन्नाह - अत्रास्मिन् 'लोके' चतुर्दशरज्ज्वात्मके विश्वे । न कतिपय इत्याह- 'सर्वे' अशेषास्ते च प्रत्यासन्ना विप्रकृष्टाश्चेत्याह - 'अमी' ये दृष्टादृष्टरूपास्ते सर्वे‘यदि' इति चेद् उक्तजिनेशवचनानुसारत इति ध्येयम् । तर्हि ' हन्त' इति खेदे ‘अहमेव' न त्वन्यः 'एकः ' केवलो न द्वितीय: 'मूढः' मन्दबुद्धिः, कुत इत्याह - 'यत्' यस्मात् 'परवस्तुषु' - अस्वेषु - अस्वकीयेषु च देहादिषु विषयादिषु वस्तुषुभावेषु रज्येऽनुरक्तो भवामि । इदमत्र तत्त्वं - जिनोक्तप्रवचनानुसारेण सर्वेषां भावानां स्वप्रतिष्ठतया न किमपि स्वं स्वकीयं वा एवं च देहादिषु विषयेषु चाहं - ममेति बुद्धिर्मिथ्या तथापि तत्र मोहस्तथा जानतोऽपि सर्वोत्कृष्टा मूढता जीवस्येत्यर्थः ॥३०॥
स्वरूपस्थमुनेरात्मस्थितिमाह -
न रज्यते न च द्वेष्टि, परभावेषु निर्ममः ।
ज्ञानमात्रं स्वरूपं स्वं, पश्यन्नात्मरतिर्मुनिः ॥३१॥
७७
पद्मप्रभा० 'न रज्यत' इत्यादि, 'न रज्यते' न रागभावं करोति नासक्तो भवति 'न च' नैव 'द्वेष्टि' द्वेषबुद्धिं करोति । क्वेत्याह-' परभावेषु' परपदार्थेष्वात्मभिन्नेष्वित्यर्थः । एतादृशः क इत्याह 'निर्ममः ' ममत्वशून्यो नाहं कस्यचिद् न किमपि ममेति बुद्धिमान् 'मुनिः' मननशीलः स्वपरविवेकवान् तमेव विशिनष्टि, 'आत्मरतिः 'आत्मन्येवासक्तिर्यस्य स आत्मध्यानलीनः । तत्रापि हेतुगर्भं विशेषणमाह - ज्ञानमात्रमित्यादि ' स्वं' - निजं स्वरूपं - तत्त्वं ' ज्ञानमात्रं ' - ज्ञानैकस्वभावं ' पश्यन् ' - अवलोकमान: निश्चितवानित्यर्थः इदमत्र तात्पर्यं - यो राग-द्वेषरहितः परभावेषु निर्ममो यश्चात्मरतिमान् स्वं स्वरूपं ज्ञानमात्रमेव पश्यति स एव मुनिरिति ध्येयम् ॥३१॥
उपसंहरन्नाह -
इत्येवं स्वपरद्वयास्खलित - चिच्छक्त्या विभाव्य स्फुटं, भेदं स्वेतरयोविहाय च परान् भावान् समग्रानमून् । चित्तत्वे स्थिरतामुपैति परमां यो निर्विकाराशयः, स स्यात्कर्मकलङ्कपङ्कविकलो नित्यस्फुरच्चिद्धनः ॥३२॥

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122