Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 76
________________ द्वात्रिंशिका] अध्यात्मबिन्दुः ७५ 'वैद्यः' भिषक् 'विक्रियां' विषभक्षणजन्यचैतन्यविलोपादिरूपं विकारं नोपगच्छति न प्राप्नोति 'तथे ति दाान्तिकोपदर्शनार्थमाह - 'कर्मोदये' इति कर्मण उदये फलदानाभिमुख्ये 'भुञ्जानोऽपि' कर्मफलमनुभवन्नपि विषयाननुभवन्नपि 'ज्ञानी' उक्तस्वरूपात्मज्ञानवान् 'न बध्यते' न कर्मणा श्लिष्यते । अयं भावः - वैद्यो हि विषविकारज्ञः विषं विशोध्यैव विषस्य विकारसामर्थ्य तथा तथा प्रक्रियाभिरपनीयैव भक्षयति ततश्च दोषकारकादपि भेषजरूपतां प्राप्तात् विषाद् दोषोपशम एव जायते तथा ज्ञानी कर्मोदये तत्फलभोगस्यावर्जनीयत्वेऽपि भरतादिवदनासक्तभावेनैव ज्ञानमहिम्ना भोगान् भुञ्जानोऽपि न बध्यते, रागादेरेव बन्धप्रयोजकत्वात् ज्ञानिनस्तदभावादिति । एवं चोदितस्य कर्मणो भोगेन क्षयात् नूतनबन्धस्य चाभावात् ज्ञानिनो मोक्षः कथं न स्यादिति ?. स्यादेवेत्यर्थः ॥२६॥ उक्तमेवार्थं दृष्टन्तान्तरेण विशदयन्नाह - मन्त्रादिध्वस्तसामर्थ्यो, न दहत्यनलो यथा । बद्धं नालं तथा ज्ञान-शक्तिकुण्ठीकृतोऽप्ययम् ॥२७॥ पद्मप्रभा० मन्त्रादी'त्यादि, यथा' - येन प्रकारेणेति, मन्त्रादिध्वस्तसामर्थ्यः' मन्त्रः - अग्निबन्धनमन्त्रः तन्त्रशास्त्रप्रसिद्धः, आदिना तथाविधविद्याभेषज-लेपादि तेन कृत्वा ध्वस्तं सामर्थ्य शक्तिर्यस्येत्येवं प्रकार: 'अनलः' अग्निः 'न दहति' न दाहं करोति ध्वस्तसामर्थ्यात् न भस्मसात्करोतीत्यर्थः 'तथा' - तेन प्रकारेण 'ज्ञानशक्तिना' - ज्ञानसामर्थ्येन 'कुण्ठीकृतोऽप्ययं' दग्धरज्जुकल्पकृतः पुनः कर्मबन्धशक्तिशून्यः कृतः, अयं कर्मोदयः 'बद्धं' - निगडितुं 'नालं' न समर्थः 'अपिः एवार्थे भिन्नक्रमश्च न इत्यनेन सम्बध्यते, नैव अलमित्यर्थः । तदुक्तं - "अज्ञानी क्षपयेत् कर्म, यज्जन्मशतकोटिभिः । तज्ज्ञानी तु त्रिगुप्तात्मा, निहन्त्यन्तर्मुहूर्तके" ॥१॥॥२७॥ सम्यग्दृष्टिश्च ज्ञानी एव भवति ततस्तस्य द्रव्यभोगो नालं कर्मलेपायेति दृष्टान्तपूर्वकमाह ____ मद्यं पिबन् यथा मत्तो, न स्यादरतिमान् पुमान् । द्रव्यभोगं तथा कुर्वन्, सम्यग्दृष्टिर्न लिप्यते ॥२८॥ पद्मप्रभा० 'मद्यमित्यादि, 'मद्यं' मादकं मदिरादिकं तत् 'पिबन्' सेवमानः

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122