Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 75
________________ ७४ अध्यात्मबिन्दुः विकल्पैरपरामृष्टः, स्पृष्टः कर्माणुभिर्न च । परं ज्योतिः परं तत्त्वं, तदेवाहं न चापरम् ॥२४॥ [ तृतीया पद्मप्रभा० ‘विकल्पै 'रित्यादि, शब्दादिविषयकसंकल्पैः‘अपरामृष्टः'असंस्पृष्टः शून्य इत्यर्थः ननु कर्मसंश्लेषे विकल्पो दुर्वार इति चेत् तत्राह - 'स्पृष्टः' सम्पृक्तः, 'न च' नैव, कैरित्याह - 'कर्माणुभिः ' कर्मपुद्गलैरित्यर्थः । शुद्धनये हि सर्वं स्वप्रतिष्ठमिति न कर्मात्मनः कोऽपि सम्बन्ध इत्याशयः । 'परं' सर्वोत्कृष्टं सर्वभवद्भाविभूतभावावभासकत्वात् अत एव‘ज्योतिः' प्रकाशकत्वसाधर्म्यात् ज्योतिरिव ज्योति: । 'परं' श्रेष्ठानन्दैकस्वभावत्वात् ‘तत्त्वं' भावः-वस्तुः अत्यन्तोपादेयमिति भावः । ननु इदृशो भवतु कोऽपि तेन स्वस्य को लाभः ? इति चेत् तत्राह - 'तदेवाह 'मिति एवकारेणानीदृशो व्यवच्छेदस्तदिति वेत्तृत्वादिविशेषणविशिष्टं तत्त्वमेव 'अहं' अहमितिपदबोध्य आत्मा न च नैव 'अपरं ' अन्यादृशं, शुद्धनयस्य सोपाधिकात्मनोऽविषयत्वादिति भावः ||२४|| - पुनरपि शुद्धात्मानं विशिनष्टि अणोरणीयानीत्यादिनाअणोरणीयान् महतो महीयानपि य पुनः । यस्य भासा जगत् सर्वं भात्यलक्ष्यः पुनः स्वयम् ॥२५॥ पद्मप्रभा० 'अणोरणीयानि 'त्यादि, 'अणोः ' सूक्ष्मदृशा अपि दुर्ग्राह्यत्वात् सूक्ष्मः तस्मादपि' अणीयान्' सूक्ष्मादपि सूक्ष्म इत्यर्थः । 'महतः' मेर्वादेः सकाशात् 'महीयान्' महत्तमः केवलिसमुद्धाते सर्वाकाशप्रदेशव्याप्तेरिति ध्येयम् । अपिश्चार्थे न केवलमणुरेव महानपीति अथवा अपिर्भिन्नक्रमः तथा च महतोऽपि महीयानित्यर्थः । 'य' इति विशेष्यमाह • यः इति शुद्धात्मा पुनरिति वाक्यालङ्कारे, यदुक्तं परंज्योतिरिति (श्लोक-२४) तद्विवरणमाह - 'यस्ये 'ति शुद्धात्मनो' भासा' चित्प्रकाशेन' जगत् ' विश्वं सर्वं अशेषं' भाति' प्रकाशते । यदि शुद्धचिदात्मात्मा न स्यात् तर्हि सर्वज्ञकथा अस्तमेवोपेयात्, इदृशोऽपि 'स्वयं' आत्मा 'पुनः' 'अलक्ष्यः' अगम्यः छद्मस्थानां, निरावृतज्ञानमात्रगम्यत्वात् तस्य । इदृश आत्मा भावितः सन् मोक्षहेतुरिति सम्बन्धनीयम् ॥२५॥ आत्मना ननु मोक्षो दुर्लभः कर्मबन्धानिवृत्तेरित्याशङ्कायामाह विषमश्नन् यथा वैद्यो, विक्रियां नोपगच्छति । कर्मोदये तथा ज्ञानी, भुञ्जानोऽपि न बध्यते ॥२६॥ पद्मप्रभा० 'विषमित्यादि, 'विषं 'गरलं अश्नन् भुञ्जान: 'यथा' येन प्रकारेण

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122