Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust
View full book text
________________
७२ अध्यात्मबिन्दुः
[तृतीया यत्प्रकारं तत्त्वं तत्'तत्प्रकारं तत्त्वं गौरवग्रस्तत्वाद् ‘दुष्ट' दोषग्रस्तं हेयमिति 'न' - नैव । 'इति'- हेतोः एवं परैः 'परतीर्थिकवादिभिः न केवलं जैनादिभिरिति क्रोडीकृतं' अभ्युपगतम् । प्रामाणिकं गौरवं न दोषायेति परं नयः । ईश्वरस्योक्तरीत्या कर्तृत्वासम्भवे प्रत्येकमात्मनश्च तदस्वीकारे जगदसिद्धिरित्यकामेनाप्यात्मनः कर्तृत्वं प्रत्येकमास्थेयमेवेति जगदन्यथानुपपत्त्या सिद्धमात्मनो प्रत्येकं कर्तृत्वं गुरुभूतमपि स्वीकरणीयमेवेति भावः ॥२०॥
_ ननु कोऽप्यात्मनोऽनर्थाय न प्रवर्तत इत्यात्मनः कर्तृत्वमसमञ्जसं परवशतयैव दुःखप्रवृत्तिदर्शनाच्चेश्वरस्य कर्तृत्वमावश्यकमिति चेन्न आत्मनः कर्माधीनप्रवृत्तिकत्वात् ईश्वरप्रेरणां विना कर्मणैव जीवस्याधोगमनं दुर्योनिगमनं सदृष्टान्तं दर्शयन्नाह -
स्वयं प्रयाति दुर्योनि कर्मणा विवशीकृतः।
अमेध्यसम्भृतं कूपमुन्मत्त इव चेतनः ॥२१॥ पद्मप्रभा० स्वयमि'त्यादि, स्वयं' ईश्वरकृतप्रेरणां विनैवात्मनैव प्रयाति' प्रकर्षण याति गच्छति 'दुर्योनि' दुष्टां दुःखबहुलां योनि श्व-शूकरादिभवं नरकादिगतिमित्यर्थः, अधोगति स्वभावप्रच्युतिमिति यावत् 'कर्मणा' ज्ञानावरणीयाद्याख्येन 'विवशीकृतः' पराधीनः कृतः सन् क इत्याह- 'चेतनः' चेतनावान्, चेतनावानपि कर्मवशादधोगति यातीति महन्माहात्म्यं ध्वन्यते कर्मण इति । अत्र दृष्टान्तमाह-'अमेध्ये 'त्यादि अमेध्यैरशुचिद्रव्यैः कृमिविष्टादिभिः सम्भृतं' - पूर्णममध्यसञ्चयकलुषमित्यर्थः, 'कूपं' - निम्नमवटादिक मुन्मत्तः' हिताहितविवेकविकल उन्मादपरवश 'इव' सम्भ्रान्तचित्तः स इवेति । यथा उन्मादग्रस्तोऽनवस्थितचित्तत्वात् विवेकभ्रष्टोऽशुचावपि कूपादौ निमज्जति तथात्मापि कर्मवशात् स्वभावप्रच्युतोऽशुद्धपरिणामो दुःखबहुलनानायोनि प्रतिपद्यत इति कर्मणः स्वीकारेणैवेष्टसिद्धेरीश्वरस्यातिरिक्तस्य पदार्थस्य स्वीकारे गौरवं विहाय नान्यः कोऽपि लाभ इति भावः ॥२१॥ विनात्मज्ञानात् न हि सिद्धिरित्याह -
अन्वय-व्यतिरेकाभ्यां, मोक्षहेतुः स्वधीभवेत् ।
तदभावे तपस्तप्तं, योगक्षेमकरं न हि ॥२२॥ पद्मप्रभा० अन्वये 'त्यादि, अन्वयः 'तत्सत्त्वे तत्सत्त्वं' 'व्यतिरेकः' 'तदभावे तदभावः' ताभ्यां कृत्वा 'स्वधी:' आत्मज्ञानं 'मोक्षहेतुः' मोक्षकारणं भवेत् स्यात् ।

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122