Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 79
________________ ७८ अध्यात्मबिन्दुः [तृतीया पद्मप्रभा० 'इत्येव' मित्यादि, 'इति एवं' - अनेनोक्तप्रकारेण 'स्वपरद्धयास्खलितचिच्छत्या' स्वः - आत्मा पर: - पुद्गलादिस्तयोर्द्वयं तत्रास्खलिता अकुण्ठा - आत्मानं परं च ज्ञातुं समर्था सम्यक्प्रवृत्तिमती या चित् - ज्ञानं सैव शक्तिः चिच्छक्तिस्तया कृत्वा स्वेतरयोः' स्वपरयोः आत्मपुद्गलयोः भेदं भिन्नस्वभावता। भेदः किदृशस्तदाह - 'स्फुटं' - चिदचिदात्मना व्यक्तं विभाव्य' परिशील्य, तदुक्तं योगशास्त्रे -"कर्मजीवं च संश्लिष्टं, परिज्ञातात्मनिश्चयः । विभिन्नीकुरुते साधुः, सामायिकशलाकया" ॥४/५२॥ ज्ञानसारे विवेकाष्टकेऽपि - 'कर्मजीवं च संश्लिष्टं, सर्वदा क्षीरनीरवत् । विभिन्नीकुरुते योऽसौ, मुनिहंसो विवेकवान् ॥१॥ इति । 'अमून्' - सन्निकृष्टान् विप्रकृष्टांश्च परान्' आत्मेतरान् भावान्' पदार्थान् विषयान् शब्दादीन्, न कतिपयानेवेत्याह - 'समग्रान्' - अशेषान् ‘विहाय' त्यक्त्वा तेष्वासक्तिं दूरीकृत्य परिहत्येत्यर्थः । यो हि स्वपरयोर्भेदं जानाति स एव परभावेष्वनासक्तिवान् भवतीति भावः । निर्विकाराशयः' रागद्वेषादिविकारान्निर्गतो रहित आशयो मनोवृत्तिर्यस्य सः तादृशः सन् । 'यः' अनिर्दिष्टस्वरूपः पुरुषः विवेकी परभावेष्वनासक्तश्च स एव निविकाराशयो भवति नान्य इति विशेषणक्रमेण ध्वन्यते । 'चित् तत्त्वे' ज्ञानस्वरूपेऽत्माख्ये वस्तुनि ‘परमां' - अविचलितां निर्वाताऽपवरककोणगतदीपशिखोपमां - 'स्थिरतां'-लीनतां-मग्नतां तदेकतानतामित्यर्थः 'उपैति' प्राप्नोति । उक्त स्वरुप एव पुरुष आत्मलीनो भवतीत्याशयः। स यत्पदनिर्दिष्टपुरुष: 'नित्यस्फुरच्चिद्घनः' नित्यं - अविरतं न तु कदाचिदिति स्फुरन्ती प्रकाशमाना निरावृता या चित् तया कृत्वा घनः निबिड: शुद्धचिन्मय इत्यर्थः । 'कर्मकलङ्कपङ्कविकलो' कर्माण्येव दूषकत्वात् कलङ्काः कलङ्का एव लेपसाधर्म्यात् पता इव ततो विकलो रहितः परिशटितसर्वकर्मा इत्यर्थः 'स्यात्' भवेत् । इदमत्रावधेयम् - यावन्न स्वपरविवेकस्तावन्न परभावविरतिः न च विरतिं विनाऽऽशयशुद्धिः न वाऽशुद्धाशयस्य स्थिरप्रज्ञता, न च स्थिरप्रज्ञतां विनाऽविरत प्रकाशमानचिन्मयता न चानीदृशः कर्मभिर्मुच्यत इत्यनुक्रमेण तथा तथा विशेषः सम्पादनीय इति ॥३२॥ ____ इत्येवं श्रीमदुपाध्यायहर्षवर्धनगणिविरचिता आत्मस्वरूपभावनाख्या तृतीया द्वात्रिंशिका तपागच्छीयाचार्यविजयमित्रानन्दसूरिणा पद्मप्रभाटीकारूपेण विभाविता विवेचिता चेति । शिवमस्तु सर्वजगतः । शुभं भवतु श्रीसंघस्य ।

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122