Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 77
________________ ७६ अध्यात्मबिन्दुः [ तृतीया 'यथा' येन प्रकारेण 'मत्तः ' मदपरवशः 'पुमान्' नरो' ऽरतिमान् ' अरतिश्चित्तविप्लुतिरनानन्दः प्रतिकूलसंवेदनं वा तद्वान् न स्यात् न भवेत् प्रत्युत मदजन्यहर्षाविष्ट एव भवति । तथा तेन प्रकारेण 'सम्यग्दृष्टिः' सम्यग् समीचीना दृष्टिर्दर्शनं यस्य स सम्यग्दृष्टिः सम्यग्दर्शनसम्पन्नः सम्यक्त्वगुणधारक इत्यर्थः 'द्रव्यभोगं' द्रव्यतोऽन्यचित्तः सन् सक्तिं विहायौदासीन्येन भोगं - विषयसेवनं 'कुर्वन्' अनुतिष्ठन् 'न लिप्यते' न बध्यते कर्मणा रत्यभावादिति शेषः । अयंभावः- मद्यं पिबतोऽपि मत्तस्य यथाऽरतिर्न जायते विप्लुतचेतनत्वात् तथैव सम्यग्दृष्टेर्मोक्षे चित्तत्वात् विषयसेवनं कुर्वतोऽपि रतिर्न जायते रतेरभावाच्च न लेप इति भावः । आसक्तितः कृतो हि भोगो - भावभोगो बन्धाय भवति न पुनर्द्रव्यभोगोऽत एव सम्यग्दृष्टेर्न बन्धः कारणाभावादिति ॥२८॥ अथ कर्तृकर्मभावानाम् निरर्थकत्वमाविष्कुर्वन्नाह - स्वरूपनिष्ठाः सर्वेऽपि, भावा इति जिनेशगीः । तान् मत्वाऽऽत्मतया कर्तृ - कर्मक्लेशो वृथैव किम् ॥२९॥ पद्मप्रभा० 'स्वरूपनिष्ठा' इत्यादि, 'स्वरूपे' - स्वस्मिन् 'निष्ठाः ' प्रतिष्ठावस्थानं येषां ते तादृशा स्वप्रतिष्ठा आधाराधेय - स्वस्वामित्वकल्पना त्वौपचारिकीति सर्वं स्वप्रतिष्ठितमिति शुद्धनयस्तदेतदभिप्रेत्याह - 'सर्वेपि ' निरवशेषाऽपि न केवलं पञ्चषा एव किन्तु सर्वेऽपि इत्यपेरर्थः । 'भावा:' देहगेहधनस्वजनादिपदार्थाः स्वप्रतिष्ठेति । 'इति' एवं प्रकारा 'जिनेशगी : ' - जिनेश: - समस्तलोकालोकप्रकाशको भगवान् तीर्थकरस्तस्य गीः - वचनं प्रमाणं अविसंवादित्वात्। अमूढलक्ष्या हि वीतरागाः । ननु भवतु तथा, तेन किमिति चेत् तत्राह - 'तान्' सर्वानेव भावान् स्वप्रतिष्ठान् 'मत्वा' अवकल्प्य, केन रूपेणेत्याह - 'आत्मतया' - स्वतया स्वकीयतया च' कर्तृकर्मक्लेशो' स्वस्य कर्तृभावं देहगेहादिपरभावानां च कर्मभावना ताभ्यां जन्यश्च क्लेशो बन्धादिद्वारा जन्मादिरूपः स ‘वृथैव' निष्प्रयोजन एव 'किमि ति क्षेपे, तादृशः क्लेशो वृथा कथं त्वयाऽऽत्मन्ननुभूयत इति ? अयमत्राशय:- सर्वे भावाः स्वप्रतिष्ठा तन्न किमपि कस्यापि स्वकीयमसंलग्नत्वाद् ततश्चाहं ममेति बुद्धिस्तेषु क्लेशजनिका एवेति सा बुद्धिः परिहरणीया बन्धच्छेदाभिलाषिणा मुमुक्षुणेति ॥२९॥

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122