Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust
View full book text
________________
८३
द्वात्रिंशिका ]
अध्यात्मबिन्दुः
प्रवचनं तदेव विशिनष्टि 'अमृतादपि' पीयूषादपि 'अतिरसं' अतिशयितरसं, अमृतास्वादजनितसुखापेक्षयोत्कृष्टमुक्तिसुखजनकत्वादिति बोध्यम् । 'चिरं' दीर्घकालं निरन्तरं न तु यदाकदाचिदेवेति 'पायं पायं' पीत्वा पीत्वा सादरं श्रावं श्रावमित्यर्थः तेन तथा भावना तथाचारश्च प्रतिपादितः 'निचितमपि' निकाचितमपि - अनादिवासनावासितमपि ऐदंयुगीनस्य तु कथैव का ? इति अपेस्तात्पर्यम् । 'तत्' उक्तप्रकारमज्ञानं 'नो' इति अस्माकं 'निरगलत्’विनष्टम् । नैव सार्वज्ञवचनश्रवणादन्योऽज्ञाननाशोपाय इति भावः ॥५॥ सार्वज्ञवचनश्रवणजन्याज्ञाननाशश्च कर्तृत्वादिपरिहारेणैव सम्भवति स च माध्यस्थ्यभावनया विना न निर्वहतीति माध्यस्थ्योपदेशमाह -
स्वरूपस्याज्ञानाद् भवति किल कर्तेष पुरुषो,
अतो राग
ह्यकर्तृत्वं तस्यावगम इह सिद्धं स्वरसतः । ग-द्वेषावुदयजनितावित्यनुकलं,
तटस्थः सन् पश्यन् कथमिव भवत्येष कृतिमान् ॥६॥ शिखरिणीवृत्तम् ।
पद्मप्रभा० ‘स्वरूपस्ये 'त्यादि 'स्वरूपस्य' - शुद्धात्मस्वरूपस्य चिन्मयस्य 'अज्ञानात्' ज्ञानाभावात् 'भवति' जायते, क इत्याह - 'कर्ते 'ति कर्तृत्वाभिमानवान्, उपलक्षणत्वात् भोक्तृत्वादिपरिग्रहस्तेन भोक्तृत्वाभिमानवान्' एष' प्रतिशरीरं वर्तमानः 'पुरुष: ' आत्मा 'किले 'ति याथार्थ्ये स्वरूपाज्ञानादेवात्मनः कर्तृत्वं, न तु कृतिमत्त्वतः 'तस्य' शुद्धस्वरूपस्य' अवगमे' यथावस्थितस्वरूपेण परिज्ञाने हि स्पष्टं प्रमाणान्तरनैरपेक्ष्येणेत्यर्थः 'अकर्तृत्वं' निर्विकारत्वं 'स्वरसतः' स्वभावतः 'सिद्धं' निश्चितं 'इह' आत्मनः कर्तृत्वाकर्तृत्वविषये । ‘अतो 'उक्तविवेचनाद्धेतोः रागद्वेषौ ' रागो - विषयाभिष्वङ्गो द्वेषइष्टालाभादप्रीतिरुपलक्षणत्वात् कषाया इत्यर्थः 'उदयजनितौ' चारित्रमोहनीय कर्मोदयात् निष्पादितावित्येवं-प्रकारेण 'अनुकलं' कलायां कलायामिति अनुकलं प्रतिक्षणमित्यर्थः 'तटस्थः सन्' माध्यस्थ्यभावनामाश्रितः 'पश्यन् ' जानन् । माध्यस्थ्यभावनां विना रागद्वेषावुदयजनितौ न त्वात्मपरिणामाविति बुद्धिः । न त्वात्मनः स्वसिद्धधर्माविति ध्वन्यते । 'कथमिव' - केन प्रकारेणैष आत्मा 'कृतिमान्' कर्तृत्वादिविकारभाक् 'भवती 'ति काकुस्तटस्थस्य न केनापि प्रकारेण कर्तृत्वादिभावः सम्भवतीत्यर्थः ॥६॥
माध्यस्थ्यभावनया भेदज्ञानमुदेति । भेदज्ञानमेव च स्वरूपावस्थितिलाभहेतुरिति स्वरूपावस्थितिलाभाय भेदाभ्यासं समर्थयन्नाह -

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122