Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 74
________________ ७३ द्वात्रिंशिका] अध्यात्मबिन्दुः इदमत्राकूतम् - आत्मज्ञानसत्त्वे मोक्षसम्भव आत्मज्ञानाभावे च मोक्षाभाव इत्यन्वयव्यतिरेकाभ्यां आत्मज्ञानस्य मोक्षहेतुत्वं सिद्ध्यति। एवं च आत्मज्ञानं विना कृतस्य तपःप्रभृतेन फलसाधकत्वमपि त्वकिञ्चित्करत्वमेवेत्याह - 'तदभावे' तस्यात्मज्ञानस्याऽभावें आत्मज्ञाननैरपेक्ष्येणेत्यर्थः, 'तपः' अनशनोनोदरतादि 'तप्तं'आचरितमिति 'योगक्षेमकरं योगः अलब्धस्य लाभः, क्षेमः प्राप्तस्य रक्षणं तत्करं योगक्षेमकरं 'न हि' नैव, एवं चानशनादेर्बाह्यतपसो ज्ञानद्वारेणैव मोक्षसाधकत्वं न तु स्वरूपतः । आत्मज्ञाननिरपेक्ष-मासक्षपणादितपसो निष्फलत्वं सुविदितमेव तदुक्तं -'ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति' इति तथा “देहान्तरगते/जं देहेऽस्मिन्नात्मभावना । बीजं विदेहनिष्यत्तेरात्मन्येवाऽऽत्मभावना ॥१॥" इत्यनेनाऽऽत्मज्ञानस्यैव प्राधान्येन योगक्षेमकरत्वं ध्वन्यते ॥२२॥ आत्मज्ञानान्मुक्तिरित्युक्तं तत्रानुग्राह्यसौकर्यार्थमात्मज्ञानं भावयति - वेत्ता सर्वस्य भावस्य, वेद्यं च परमं हि यः। अनाद्यनन्तो निर्द्वन्द्वो, महानन्दो महोदयः ॥२३॥ पद्मप्रभा० 'वेत्ते'त्यादि, 'वेत्ता'-ज्ञाता कस्येत्याह 'सर्वस्य' - अशेषस्य 'भावस्य' पदार्थजातस्य सर्वद्रव्यगुणपर्यायस्येत्यर्थः, छाद्मस्थिकं हि ज्ञानं अल्पविषयकं, शुद्धा चित्तु सर्वानेव भावान् विषयीकरोति, कथमन्यथा कैवल्ये सर्वद्रव्यगुणपर्यायप्रत्यक्षं स्यात् ? इति ध्येयम् । 'हि' पुनः 'यः' शुद्ध आत्मा ‘परमं' सर्वमुख्यतया परमपुरुषार्थसाधकतया च सर्वोत्कृष्टं वेद्यं' - ज्ञेयं अर्थात् तस्मिन्नेकस्मिन् ज्ञाते सर्वं ज्ञातं भवति नान्यत् किमपि ज्ञातुमवशिष्यते । इदमत्र बोध्यम् - वेद्यमिति सामान्येन नपुंसकं, सर्वेषु ज्ञेयेषु मुख्यतया तदेवैकं ज्ञेयमिति नपुंसकनिर्देशो न विरुध्यते । तथा अनाद्यनन्तो' न आदिर्यस्य स तथा न अन्तो यस्य स, स च नित्य इत्यर्थः 'निर्द्वन्द्वो' द्वन्द्वः - रागद्वेषादि, कामक्रोधादि, इष्टवियोगानिष्टसंयोगादि तस्मानिष्क्रान्तः । अत एव 'महानन्दः' महान् - निरतिशय आनन्दो यस्य स निरतिशयाखण्डानन्दात्मेत्यर्थः 'महोदयः' महान् सर्वोत्कृष्ट उदयः प्रकाशनं यस्य स, तदुक्तं-वीतरागस्तोत्रे - "आदित्यवर्णं तमसः परस्तादामनन्ति यम्"। (वीतरागस्तोत्र १/१) ॥२३॥ यो हि वीतराग आनन्दमयः सर्वज्ञश्च स निर्विकल्पक एव स्यादित्याह -

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122