Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 71
________________ ७० अध्यात्मबिन्दुः [तृतीया न किमप्यन्यत् साधनमित्याह-'आत्मना' कारणान्तरनैरपेक्ष्येणेत्यर्थः, एतेनैवं ईश्वरादीनां कारणत्वं निराकृतं बोध्यम् । न हि कोशकृत्कृमः स्वबन्धने प्रयोजकापेक्षा तद्वदात्मनोऽपीति । ईश्वरादेः तन्निमित्तत्वकल्पना कुहेवाकमात्रमिति ॥१६।। अत्रार्थे दाार्थं दृष्टान्तान्तरमाह - लूताऽऽत्मानं निबध्नाति यथा स्वात्मोत्थतन्तुभिः । शुभाशुभाध्यवसायैरात्मा बनंस्तथेष्यताम् ॥१७॥ पद्मप्रभा० 'लूते' त्यादि, लूता' - मर्कटक: जन्तुविशेष: 'आत्मानं' निबध्नाति निवासतया स्वरागविषयं करोति, यथेति दृष्टान्ते स्वात्मोत्थतन्तुभिः' स्वात्मा - स्वशरीरं तदुत्थास्तदुद्भवा ये- तन्तवः सूत्राणि तैः कृत्वा अयमर्थः- यथा लूता स्वमुखान्निर्गतलालाभिः जालं रचयति तेनैवाऽऽत्मानं स्वं निबध्नाति' नितरां दृढं बध्नाति - निगडयति । दाान्तिकमाह-'तथा' तेन प्रकारेणैव 'शुभे' त्यादि शुभाः कुशलानुबन्धिनोऽशुभा अकुशलानुबन्धिनो येऽध्यवसायाः रागादिरूपपरिणामास्तैः कृत्वाऽऽत्मा बध्नन्'-बन्धनं सम्पादयन् आत्मानमिति, कर्मतयेह सम्बन्धनीयम्'इष्यताम्' - स्वीक्रियताम् । आत्मा शुभाशुभाध्यवसायेन स्वयमेव स्वस्य पुण्यपापस्वरूपं बन्धनं सम्पादयति लूतावदिति न तत्र ईश्वरादिप्रयोजकापेक्षेति भावः ॥१७॥ जीवस्य कर्मबन्धनादौ पराभिमतं ईश्वरस्य कर्तृत्वं निरस्यति - ईश्वरस्य न कर्तृत्वमशरीरत्वाद् दिगादिवत् । ततस्तत्प्रेरितो हन्त ! कथमेव विचेष्टते ? ॥१८॥ पद्मप्रभा० 'ईश्वरस्ये' त्यादि, ईश्वरस्य नित्यज्ञानेच्छाकृतिमतश्चेतनस्येश्वरपदवाच्यस्य नैयायिकाद्यैरभ्युपगतस्य न 'कर्तृत्वं' कृतिमत्वं जीवस्य संसारिसत्त्वस्य कर्मबन्धनादौ कर्म शुभाशुभमदृष्टं तस्य बन्धनं - आत्मना सह संयोगः आदिपदात् तत्फले सुखदुःखादि जन्मादिक्लेशश्च तज्जन्मादिग्रहणं प्रति न प्रेरकत्वं, तत्र हेतुमाह - 'अशरीरत्वात्' देहरहित्वात् तत्र दृष्टान्तमाह - ‘दिगादिवत्' इति दिगाकाशादेदेहरहितत्वात् यथा न कर्तृत्वं तथेति । इदमिह ध्येयं- नैयायिका हि कर्तृत्वेन कार्यत्वेन कार्यकारणभावं स्वीकृत्य जन्मादिकार्य प्रतीश्वरस्य कर्तृत्वमनुमिन्वन्ति, तत्रायं सप्रतिपक्षस्तथा च प्रयोगः - ईश्वरो न कर्ताऽदेहत्वात् यो योऽदेहः स स न कर्ता दिगादिवदिति । उक्तानुमानेनेश्वरस्य कर्तृत्वनिषेधे फलितमाह -

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122