Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 70
________________ द्वात्रिंशिका] अध्यात्मबिन्दुः ध्वन्यते नत्वादौ पुण्यपापरोधः पश्चादात्मध्यानं, ध्यानस्यैव तत्र हेतुत्वादिति बोध्यम् । ननु एवं कृते सति किं लभ्यमित्याकाङ्क्षायामाह- तत आत्मध्यानेन पुण्यपापयो रोधे सति - 'बीजाभावे' बीजस्य पुण्यपापरूपनिदानस्याभावे सति 'अयं' सर्वत्र लोके दृश्यमानः 'जन्मप्ररोहः' जन्म-जनिः-भवः तदेव प्ररोहोऽङ्करः स न नैव 'सम्भवेत्' आत्मलाभं लभेत । अयमाशयः- बीजे सत्यङ्करोत्पादस्तथैव जन्मकारणं पुण्यपापे स्तः । आत्मध्यानेन तद्रोधे च पुण्यपापयोरभाव इति हेत्वभावात् पुनर्भवस्याप्यभावः, न हि कारणाभावे कार्यमिति ॥१४॥ ननु प्राग् यदुक्तं निष्क्रियः कर्मभ्यः कर्मकार्येभ्यश्च पृथगाऽत्मा तर्हि कथं रागादीनां कर्तेत्याह - अनादिबन्धनोपाधिसन्निधानप्रधावितान् । रागादीनात्मनः कुर्वन्नात्मा भवति कारकः ॥१५॥ पद्मप्रभा० 'अनादि' इत्यादि, न आदिर्यस्य तत् अनादि प्रवाहरूपेण न तु व्यक्तिरुपेण बीजाङ्करवत्, तादृशं यद् बन्धनं' कर्मसंश्लेषः स एव उपाधि'वैगुण्यापादक आगन्तुको धर्मस्तस्य 'सन्निधानं' नैकट्यं तेन हेतुना 'प्रधावितान्' प्रधाविताः स्वयमेवापतिताः तान् । अयमाशयः- कर्मसन्निधानेन रागादयः कर्ममाहात्म्यात् स्वयमेव जायन्ते इत्यतस्तेऽनादिबन्धनोपाधिसंन्निधानप्रधाविता इति विशेष्यमाह - 'रागादीन्' रागो विषयाभिष्वङ्ग आदिना द्वेषादिपरिग्रहस्तान् ‘आत्मनः' - स्वस्य स्वपरिणामतया 'कुर्वन्' सम्पादयन्नात्मा 'कारकः'- कर्ता पुण्यपापयोर्हेतुर्भवति ॥१५॥ ननु स्वयं स्वस्य बन्धाय कथं प्रवर्तेतेत्याह - यथाऽऽत्मानं निबध्नाति तन्तुभिः कोशकृत् कृमिः । तथाऽशुद्धाशयै वो बध्नात्यात्मानमात्मना ॥१६॥ पद्मप्रभा० 'यथे' त्यादि यथा-येन प्रकारेणात्मानं स्वयमेव 'निबध्नाति' नितरां बन्धनविषयं करोति कैरित्याह - 'तन्तुभिः' स्वमुखोगिरितलालाभिः । कोशं तन्तुजालं करोतीति कोशकृत् कृमिः' - क्षुद्रजन्तुविशेष: 'तथा' तद्वत् अशुद्धा अनिष्टापादकत्वात् आशया सगादिपरिणामास्तैः करणभूतैः कथञ्चिदात्मनोऽपृथग्भूतैरिति करणरूपेणाऽऽत्मना जीव आत्मानं बध्नातीति । कर्मरज्जुवेष्टितं करोति, कमित्याह - 'आत्मानं' स्वमेव, तत्र

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122