Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 68
________________ द्वात्रिंशिका ] अध्यात्मबिन्दुः ६७ ज्ञानस्य यथा पर्यायता तथा सर्वे आत्मनः पर्याया इति । तानि कथं ? इत्याह- 'भिन्नानि ' भेदेन प्रतीयमानानि कुत इत्याह- चेतनात्-आत्मनो यदि हि भेदो न स्यात् पृथग् व्यवहारो न स्यादस्ति च पृथग् व्यवहारस्ततः कथञ्चिद् ज्ञानात्मनोर्भेदोऽपि । ननु वस्तुतोऽभेदे कथं भेदेन व्यवहार इति चेत् तत्र दृष्टान्तमाह - 'राहोः शिरोवद्' यथा राहो ः शेषदेहाऽभावात् शिरोदेश एव राहुः । एवं राहोस्तच्छिरसोरभेदस्तथापि राहोः शिर इत्यौपचारिक भेदमाश्रित्य भेदसम्बन्धे षष्ठी, अभेदे तदनुपपत्तेः, दान्तिक माह तद्वद् 'एषो ' व्यवहारनयोऽपीत्यभेदेऽपि इत्यर्थः व्युत्क्रमेण सम्बन्धः निश्चयतो भेदाभावेऽपीत्यर्थोऽपिना यत्र वास्तवो भेदस्तत्र तु भेद - प्रतीतेः कथैव केति द्योत्यते । 'भेदप्रतीतिकृत्' भेदस्य भेदविषयतया तत्सम्बन्धिनीं प्रतीतिं ज्ञानं करोतीति । स व्यवहारनयो निश्चयनयतोऽभेदे सत्यपि भेदधियं जनयेत् निश्चयाभिमतपदार्थादर्शनात्तस्य । एवं च तदभिप्रायेणैव ज्ञानादीनामात्मनो भेदेन प्रतिपादनमित्याशयः ॥११॥ कर्मपरिशाटयर्थं भेदभावनां विभावयति - - भेदविज्ञानमभ्यस्येद् धारावाहितया बुधः । येन विक्षिप्य कर्माणि स्वयं शुद्धोऽवतिष्ठते ॥१२॥ पद्मप्रभा० ‘भेदे’त्यादि, 'भेदविज्ञानं' - भेदः कर्मजीवयोः पार्थक्यं तस्य विज्ञानं, विशिष्टं देहादिषु स्वत्वाभिमानादिपरिहारेण ज्ञानं-निश्चयस्तं देहादिषु स्वत्वाभिमानादिपरिहारपूर्वकं कर्मजीवभेदभावनामित्यर्थः, 'अभ्यस्येत्' पुनः पुनर्भावयेत् तदपि न पुनर्यदाकदाचिदित्याह - ‘धारावाहितया' यथा धारा प्रवाहेऽत्रुटिता प्रवर्तते तथा नैरन्तर्येणेति, तदुक्तं चान्यत्रापि 'श्रोतव्यः श्रुतिवाक्येभ्यो, मन्तव्यश्चोपपत्तिभिः । श्रुत्वा तु सततं ध्येयः, एतेदर्शनहेतवः ॥ १॥ इत्थं भावनावांश्च न साधारणो जन इत्याह 'बुधः ' सदसद्विवेकसम्पन्नः स्वरूपसमवस्थानमिच्छन्नित्यर्थः, न हि अनीदृशस्तादृश इति, तादृश भावनावान् बुध एव, बुध एव च तादृश भावनावानिति ध्वन्यते । अभ्यासप्रयोजनमाह - 'येन' तादृशभेदविज्ञानाभ्यासेन 'विक्षिप्य' परिशाट्य किमित्याह कर्माणि ज्ञानावरणीयादीनि, कर्मपरिशाटेनेष्टसिद्धिमाह - 'स्वयं' स्वत एव 'शुद्धः ' निरावृतः सन् 'अवतिष्ठते' स्थितो भवति, स्वरुपसमवस्थानं लभत इत्यर्थः । अयं भावः- यथा मेघाद्यावृत्तः सूर्य आवरणापगमे स्वयं प्रकाशस्तिष्ठति नत्वाऽऽवरणानपगमेन स एतादृशः क्रियते तथैव उक्तभेदविज्ञानाभ्यास-वशादावरणानि कर्माणि व्यपगतानि भवन्तीति, आत्मा - -

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122