Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust
View full book text
________________
अध्यात्मबिन्दुः
[तृतीया - पद्मप्रभा० पीते'त्यादि, निश्चयनयापेक्षया यथा येन प्रकारेण स्वर्णात्' सुवर्णात् 'पीत-स्निग्ध-गुरुत्वानां' पीतत्व-स्निग्धत्व-गुरुत्वानां त्वप्रत्ययस्य द्वन्द्वान्ते श्रूयमाणत्वात् प्रत्येकमभिसम्बन्धः 'द्वन्द्वान्ते द्वन्द्वादौ वा श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते' इति न्यायात् । पीतत्वं स्वर्णस्य पीतिम गुणः, स्निग्धत्वं स्वर्णस्य तापसंयोगे द्रवावस्था, गुरुत्वं भारवत्त्वं एतत्रयं व्यवहारतो भिन्नं प्रतीयमानमपि न भिन्नं पृथगनुपलम्भात्, यो हि भिन्नः स पृथगुपलभ्यते तदेतदभिप्रेत्याह - 'न भिन्नता' न भेदरूपता द्रव्यार्थिकनये हि द्रव्यमेव तथा तथा भासते न पीतत्वादिपर्यायो नाम कोऽप्यस्तीत्यभेद एव द्रव्यगुणयोरिति । अथ दार्टान्तिकमाह - 'तथा' तेन प्रकारेण 'आत्मनो' द्रव्यार्थिकनयमतात् शुद्धरुपादात्मसकाशात् 'दृग्-ज्ञानवृत्तानां' दृग्-सम्यग्दर्शनं, तत्त्वार्थश्रद्धानं, ज्ञान-तत्त्वावबोधः, वृत्तंचारित्रं तत्त्वपरिणतिः विरतिभाव इत्येषां त्रयाणां 'न भिदा' न भेदः । आत्मन एव तथा तथा प्रतिभासः । ज्ञानादीनां आत्मनः सकाशाद् भेदस्तु व्यवहारेणैवेति सर्वविदितमेतत् तदुक्तं वीतरागस्तोत्रे -
ध्याता ध्येयं तथा ध्यानं, त्रयमेकात्मतां गतम्। - इति ते योगमाहात्म्यं, कथं श्रद्धीयतां परैः ॥१४/८।। यस्मिन् विज्ञानमानन्दं, ब्रह्मचैकात्मतां गतम् ।
स श्रद्धेयः स च ध्येयः, प्रपद्ये शरणं च तम् ॥१/४॥ इति ज्ञानादीनां आत्मनो अपृथग्भावात् पृथगनुपलम्भात् न तेषु परस्परं भेदस्तत एवाऽऽत्मनश्च न ततो भेद इति शुद्धद्रव्यार्थिकनिश्चयदृष्टिरिति ध्येयम् ॥१०॥
ननु ज्ञानात्मनोरभेदे ज्ञानवानित्यादि व्यवहारो न सिद्धयति भेदे सति एव तद्वान् इति व्यवहारदर्शनादित्याशङ्कायामाह -
व्यवहारेण तु ज्ञानादीनि भिन्नानि चेतनात् ।
राहोः शिरोवदप्येषोऽभेदे भेदप्रतीतिकृत् ॥११॥ पद्मप्रभा० 'व्यवहारेणे'त्यादि, तु पूर्वस्मात् भेदे विशेषे च । व्यवहारदृष्टिनिश्चयतो भिन्ना तत एव चात्मनो ज्ञानवत्त्वादि विशेषणमिति । तद्विवृणोति 'व्यवहारेणे'ति व्यवहारेण-व्यवहारनयदृष्ट्या 'ज्ञानादीनि' दृगज्ञानवृत्तानि, आदिशब्दः प्रकारे न तु व्यवस्थायां ततश्च ज्ञानप्रकारता दृशौ वृत्तस्यापीति ज्ञानादीनि इत्यनेन त्रयाणां ग्रहणं यद्वा

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122