Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust
View full book text
________________
अध्यात्मबिन्दुः
[ तृतीया लोहाकर्षणशक्तिमतः सकाशात् 'स्यात्' भवेत् किमित्याह 'सक्रियता ' आकर्षणरूपक्रियायोगः 'यथे 'ति दृष्टान्ते कान्तलोहं ह्यपरं लोहं सक्रियं करोति तेन च तल्लोहं कान्तलोहस्य समीपमेतीत्याशयः । अथ दार्ष्यन्तिकमाह- ' तथा ' तेन प्रकारेण 'निष्क्रियः ' - शुद्धस्वभावस्तेनैव च स्थिरस्वभाव आत्मा शब्दादिपुद्गलादिकं प्रत्युन्मुखो जीवः आत्मा‘सक्रियः' शब्दादिषु प्रवृत्तिमान् भवेत् स्यात्, कुत इति हेत्वाकाङ्क्षापूरणायाह'कर्मोपाधेः' कर्मरूपो य उपाधिस्तस्मादिति । उप आधीयते इत्युपाधिरागन्तुको भावः कर्म यदात्मनि उपाधीयते समीपस्थं सम्बद्धं भवतीत्यर्थः, तदात्मनि क्रियायोगः नान्यथा, तादृशकर्म-संश्लेषाभावेऽऽत्मनः पुनः स्वरूपेणैव समवस्थानादिति भावः ||६||
-
६४
जीवपरमात्मनोः कर्मोपाधिकृत एव भेदो न तु तात्त्विक इत्याहशुद्धो बुद्धश्चिदानन्दो, निष्क्रियो निर्मलोऽव्ययः । परमात्मा जिनः सोऽयं सकर्मा जीवनामभाक् ॥७॥
पद्मप्रभा • 'शुद्धो' इत्यादि 'शुद्धो' - कर्मपङ्करहितत्वात् शुद्ध इव शुद्धः शुचिरित्यर्थः 'बुद्धः '- केवलज्ञानवान् अनावृतत्वात् यद्यप्यात्मनो ज्ञानैकरूपता तथापि व्यवहारतो बुद्धत्वं कथ्यते । शुद्धनयेनाह - 'चिदानन्दो' चिच्चासौ आनन्दश्च चिद्रूप आनन्दरुपश्चेत्यर्थः, शुद्धनयेन चिदात्मन आनन्दात्मनोश्चाभेदादिति 'निष्क्रियो' शब्दादिषु प्रवृत्तिशून्यस्तत्र हेतुगर्भं विशेषणमाह - 'निर्मलः ' कर्ममलरहितः कर्मोपाधेर्हि आत्मनः सक्रियता प्रागुपपादिता तद् राहित्ये च निष्क्रियतैवावशिष्टा स्वतः सिद्धेति । 'अव्ययः ' नित्योऽविनाशी, अत एव 'परमात्मा'- परमो जीवात्मापेक्षया श्रेष्ठः आत्मेति परमात्माऽखण्डचिदानन्दमयत्वात् परमत्वमात्मन एवति ध्येयम्। 'जिनः ' रागद्वेषादि जयाद् रागद्वेषादिप्रयोजक-कर्मोपाधेरभावादात्मा सदैव जिन एव भवतीत्यर्थः 'सः' उक्तप्रकार: 'अयं' अहमिति अनुभवगम्य आत्मा, 'सकर्मा' 'कर्मभिः सह वर्तमानः सन् 'जीवनामभाक्' जीव इति नाम-संज्ञां भजति इति सो जीव इत्यभिधीयत इत्यर्थः । एवं शब्दनयेन यस्यैवऽऽत्माख्या तस्यैव जीवाख्येति न जीवात्मनोर्भेद इन्द्रशक्रादिवदिति भावः ॥७॥
दाढर्क्ष्यार्थं उक्तामप्यात्मभावनां पुनरपि शब्दान्तरेणाह
-
कर्मभ्यः कर्मकार्येभ्यः, पृथग्भूतं चिदात्मकम् । आत्मानं भावयेन्नित्यं, नित्यानन्दपदप्रदम् ॥८॥

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122