Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 63
________________ ६२ अध्यात्मबिन्दुः [तृतीया ननु स्व एवात्मा कथमन्य इति चेत्तत्राह - परद्रव्योन्मुखं ज्ञानं, कुर्वन्नात्मा परो भवेत् । । स्वद्रव्योन्मुखतां प्राप्तः, स्वतत्त्वं विन्दते क्षणात् ॥३॥ पद्मप्रभा० परे' त्यादि, परद्रव्योन्मुखं परद्रव्याभिमुख्येन क्रियमाणं पराणि यानि द्रव्याणि शरीरादीनि तदुन्मुखं तद्विषयकमित्यर्थः 'ज्ञानं' इति तु स्पष्टं 'कुर्वन्' विषयान् ध्यायन्निति सम्पूर्णार्थः । कर्तुरपेक्षां पूरयन्नाह - 'आत्मेति आत्मा 'परो' पररूपेण देहादिरूपेण भवेत्' - परिणमेत् । अन्यः स्वरूपाच्च्युतः परभावाभिष्वङ्गवान्, अन्य इव भासते बहुरूपी नटवत् तदाह-'भवेदिति । प्रतिपक्षमाह - 'स्वद्रव्योन्मुखतामिति स्वद्रव्योन्मुखता स्वेति आत्मा स एव द्रव्यं शुद्धचिदात्मकं तत्र उन्मुखस्तस्य भाव उन्मुखता तामात्मचिन्तनपरायणतामित्यर्थः 'प्राप्तः' आश्रितः आत्माराम इति सकलार्थ: 'स्वतत्त्वं'स्वस्वरूपं 'विन्दते विस्मृतकण्ठगतचामीकरहारवत् साक्षात्करोति 'क्षणात्' अचिरेणैवेत्यर्थः । आत्मध्यानपरायणः शुद्धचिदात्मकमात्मस्वरूपं साक्षात्करोति विषयान् ध्यायंश्च स एवात्मा परभावं प्राप्नोतीत्याशयः ॥३॥ कालत्रयेऽपि निबिडकर्मबन्धस्याभावं विभावयति - देहे यथाऽऽत्मधीरस्य, तथाऽऽत्मन्येव चेद् भवेत् । -- कालत्रयेऽपि बन्धोऽस्य, न भवेदिति मन्महे ॥४॥ पद्मप्रभा० 'देहे' इत्यादि, 'अस्य' - जीवस्य 'यथा'-यादृशी 'आत्मधी:'अहम्मतिः स्वत्वाभिमानिनः 'देहे' शरीरे भवति तथा तादृशी आत्म(स्वत्व)बुद्धिः आत्मनि एव' - शुद्धचिदात्मनि एव 'भवेत्'-जायेत चेत् अत्र एवकारेण आत्मातिरिक्ते देहगेहादिवस्तुनि आत्मबुद्धिव्यवच्छेदः । तहि अस्य-जीवस्य 'कालत्रयेऽपि' भवद्भाविभूतात्मकेषु त्रिषु कालेषु 'बन्धः कर्मसंश्लेषो न भवेत् कारणाभावादिति भावः । देहे आत्मबुद्ध्यैव पूर्वमस्य बन्धो जातो वर्तमाने जायते भविष्यत्कालेऽपि तथैव स्यात् एवं च तदभावे तदभावः' कारणाभावे कार्याभाव इति 'मन्महे' मन्यामह इति । देहे स्वत्वाभिमाने सत्येव कर्मबन्धस्य कारणान्तरमपि सम्भवति । तदभावे तु आत्मारामस्य न कारणान्तरप्रादुर्भाव इति सुनिश्चितमेवेति । देहात्मबुद्धित्यागः स्वरूपज्ञानं च मुक्तावपेक्षितमिति भावः । उक्तं च - परेष्वहम्मतिः स्वस्माच्च्युतो बध्नात्यसंशयम् । स्वस्मिन्नहमति: च्युत्वा परस्मान्मुच्यते बुधः ॥१॥ ॥४॥

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122