Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust
View full book text
________________
द्वात्रिंशिका ]
अध्यात्मबिन्दुः
तृतीया द्वात्रिंशिका
अथ आत्मस्वभावभावनपरां तृतीयां द्वात्रिंशिकामारभमाणो ग्रन्थकार आह विकल्पजालकल्लोलै-र्लोले किल मनोजले ।
६१
नात्मा स्फुरति चिद्रुप - स्तोयचन्द्र इव स्फुटम् ॥१॥
पद्मप्रभा० 'विकल्पे 'त्यादि, 'विकल्पाः ' संकल्पास्तेषां जालं - -समूहः परम्परेत्यर्थः त एव 'कल्लोला' महोर्मयस्तैः 'लोले' अस्थिरे मनोजले - मनोरूपे जले, किलेति निश्चये 'चिद्रूपः ' ज्ञानैकस्वभाव आत्मा'न स्फुरति' न सम्यक् प्रतिभासते यथास्थितस्वरूपो नाऽनुभूयते । अत्र दृष्टान्तः - 'तोयचन्द्र - इवे 'ति तोये- जले चन्द्रस्तत्प्रतिबिम्बं तस्य इव, यथा तरङ्गिते जले चन्द्रप्रतिबिम्बस्य न सम्यग् अवभासस्तथा विषयाभिष्वङ्गजन्य-विकल्पाकुले मनसि न सम्यगात्मदर्शनमिति स्फुटमेवैतत् ॥१॥
सम्यगात्मदर्शनोपायं दर्शयन्नाह
-
आत्मानं भावयेन्नित्यं, भावितैः किमनात्मभिः ।
प्रपद्य निस्तरङ्गत्त्वं, येनात्मा मुच्यतेऽचिरात् ॥२॥
पद्मप्रभा० 'आत्मानमि 'त्यादि, 'आत्मानं ' - शुद्धात्मानं चिदेकरूपं' भावयेत चिन्तयेत् मुहुर्मुहुः स्मृतिपथमानयेदित्यर्थः 'नित्य' मिति प्रतिदिनं पुनः पुनः निरन्तरमित्यर्थः तत्र हेतुमाह -'भावितैः' चिन्तितैरासेवितैरित्यर्थः ' किमिति काकुः, न किमपि व्यर्थमेवेत्यर्थः । कैरिति विशेषाकाङ्क्षायामाह अनात्मभिः आत्मभिन्नैः जडैः शब्दादिविषयैरित्यर्थः । अयमाशयः अनात्मानः शब्दादयः भाविताः स्वरूपलाभे अन्तरायभूता एव भवन्तीष्टफलबाधकत्वात् अशुभानुबन्धित्वाच्चेति । अनात्मभावना प्रयत्नतः परिहर्तव्या आत्मभावना च न विकल्पदूषिते चंचले मनसि संभाव्यते इत्यतो वाक्यशेषमाह – ‘प्रपद्ये 'ति प्रपद्य-प्राप्य ' निस्तरङ्गत्वं' निर्विकल्पत्वम् । इदमत्र बोध्यंविकल्पजालेत्याद्युक्तरीत्या विकल्पवशादस्थिरे मनसि आत्मभावना न संभाव्यतेऽतो आदौ प्रयस्य सद्ध्यानादिभिर्विकल्पत्यागो विधेयस्तत आत्मानं निरन्तरं भावयेत् न कदापि अनात्मनः शब्दादीन्निति, एवं कृते चेष्टसिद्धिमाह - 'येने 'ति येनानात्मभावनात्यागपूर्वकं स्थिरमनसाऽऽत्मभावनेन हेतुना 'आत्मा' जीवः 'अचिरात्' झटित्येव मुच्यते कर्मबन्धनात् तत्फलाच्च जन्मजरामरणादेः मुक्तो भवतीति भावः ॥२॥

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122