Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust

View full book text
Previous | Next

Page 69
________________ ६८ अध्यात्मबिन्दुः [तृतीया स्वयं शुद्धोऽवतिष्ठते स्वरूपेण समवस्थितः प्रकाशते न तु कर्मपरिशाटेन आत्मनस्तथास्थितिसम्पादनमिति ॥१२॥ देहात्मबुद्धिपरिहारमुपदिशन्नाह - स्वस्मिन् स्वधीनयेन्मुक्तिं देहेऽहंधी: पुनर्भवम् । ततो देहादहंबुद्धि प्रच्याव्याऽऽत्मनि योजयेत् ॥१३॥ पद्मप्रभा० 'स्वस्मिन्नि'त्यादि, 'स्वस्मिन्' इति स्व-आत्मा तस्मिन् शुद्धचिदानन्दात्मकात्मनीत्यर्थः स्वधी: ममत्वबुद्धिरहमिति बुद्धिरित्यर्थः, नयेत्' प्रापयेत् प्राप्याकाङ्क्षामाह - 'मुक्तिं' स्वरूपमवस्थानात्मकं कर्ममलरहितं स्वरूपमित्यर्थः, आत्मन्यात्मबुद्धिरेव मुक्तिसाधिकेति मुमुक्षुणाऽऽत्मारामेणैव भवितव्यमिति भावः । अन्यत्रात्मबुद्धिस्तु मोहः स च बन्धसाधकत्वात् भवपरंपराहेतुरित्याशयेनाह - 'देहे' औदारिकादिशरीरे विशरारुस्वभावे अहंधीः' अहमिति बुद्धिरात्मत्वभ्रमः पुनर्भवं-भवपरम्परां नयेदित्यनेन सम्बन्धः, अतस्मिन्स्तबुद्धिर्भवहेतुस्तस्मिंश्च तद्बुद्धिर्भवोच्छेदहेतुरिति यावत्। नन्वस्त्वेवं तावता किमिति चेद् तत्राह - 'ततो' इति तत उक्तविवेकाद्धेतोर्दैहादुपलक्षणत्वाद् गेहादित इत्यर्थः, अहंबुद्धिमात्मबुद्धिं ममत्वबुद्धिं च 'प्रच्याव्य' अपसार्य देहादिष्वात्मबुद्धिमपोह्याऽऽत्मनि' तां ‘योजयेदा'त्मानमेव तादृशबुद्धिविषयतया भावयेदतस्मिन् तद्बुद्धि विहाय मुमुक्षुणा तस्मिन्नेव तद्बुद्धिः करणीयाऽन्यथा भवपरम्परानुषङ्ग इति भावः ॥१३।। आत्मध्यानेन कर्मपरिशाट: ततश्च जन्माभावः कारणविरहादित्याह - पुण्य-पापद्वयं रुद्ध्वा, ध्यायेदात्मानमात्मना । बीजाभावे ततो जन्म-प्ररोहोऽयं न संभवेत् ॥१४॥ पद्मप्रभा० 'पुण्यपापद्वयमित्यादि, 'पुण्यपापद्वयं' पुण्यं च पापं च तयोर्द्वयं पुण्यपापद्वयं पुण्यपापहेतुशुभाशुभाश्रवसमूहमित्यर्थः,'रुद्ध्वा' संवृत्त्य ध्यायेत्' स्थिरतया चिन्तयेत्- पुनः पुनः स्मरेत् कमित्याह - 'आत्मानं' शुद्धं चिदानन्दात्मकं केनेत्याह'आत्मना'ऽन्तरात्मना साधनरूपेण । अयमाशयः- यदात्माऽन्तर्मुखप्रवृत्तिर्भवति तदाऽऽत्मा आत्मानमेव ध्यायति तदानीं च पुण्यपाप कथा हीयतेऽऽत्मनः स्वमग्नत्वात् । एवं च मुखं व्यादण्य स्वपितीतिवत् रुद्ध्वेति त्वान्तः प्रयोगस्तेन चाऽऽत्मध्यानसहभावेनैव पुण्यपापरोधो

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122