Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust
View full book text
________________
५९
द्वात्रिंशिका]
अध्यात्मबिन्दुः देहे नात्मस्वामित्वमिति । ननु तर्हि आत्मा न सिद्ध्यति देहवतोऽन्यस्य तस्य दुरुपपादत्वात् इति चेत् तत्राह - 'बोधोऽहमिति, अहमात्मा बोधः बोधानतिरिक्तः बोधमात्रस्वभाव इति यावद् अस्मीति, अत एव परिशेषात् 'प्रकृतेः' कर्मप्रकृतेः उपलक्षणाद्विकाराच्च विभिन्नः' विलक्षणः बोधस्वरुपोऽहमिति बुद्धेर्दैहादौ स्वत्वबुद्धिप्रतिबन्धकत्वात् देह - द्रव्यकर्मात्मनोर्भेदः सिद्धः।
___ननु तर्हि सोऽयं भेदोऽनादिकालत एवाद्यैव कथं बुद्ध्युन्मेष इति चेत्तत्राह'इयानि ति इयान् - अनादि कालादारभ्याद्यावधि 'अनेहाः' कालः 'न' निषेधे 'मया' आत्मना व्यभावि अलक्षि । तमेव कालं विशेषयन्नाह - 'गच्छन्नि'ति व्यतीयमानः 'अहो' इति खेदे-आश्चर्ये च मोहविडम्बितेने'ति आत्मनो विशेषणं मोहाच्छादितसद्बोधेनेत्यर्थः । अयं भावः बुद्धिर्वस्तुनो तथात्वं न गृह्णात्यद्यावधि तत्त्वाऽऽत्मनो मोहपरवशतेति । देहे स्वत्वाभिमानिनोऽपि जाते बोधे तु खिद्यते, चित्रीयते च मोहसामर्थ्यमालोच्य बोधस्वरूपं दृष्ट्वा चेति ॥३१॥
सम्प्रत्युपसंहरन्नाहप्रकृतिगुणविरक्तः शुद्धदृष्टिर्न भोक्ता, तदितर इह भोक्ता तत्स्वरूपानुरक्तः । तदिह भवति भेदाभ्यासशाली जयीति, प्रकृतिगुणविकारानङ्कितं स्वं भजध्वम्॥३२॥
पद्मप्रभा० 'प्रकृतिगुणविरक्त' इत्यादि, 'प्रकृतिगुणविरक्तः 'प्रकृतिः सत्वरजस्तमसां समानावस्था साङ्ख्यशास्त्रप्रसिद्धाऽचेतना तस्या गुणाः परिणामाः शब्दादयो विषयास्ततो विरक्तस्तेष्वप्रीतिमान् तथा शुद्धदृष्टिः' शुद्धनिश्चयनयदृष्टि अर्थान्न केवलं - वैराग्यं पर्याप्तं सत्यपि तस्मिन्नशुद्धदृष्टेभॊगानिवृत्तेरित्याशयः, शुद्धात्मस्वरूपदृष्टा तु विरक्तो 'न भोक्ता'न भोगानां भोक्ता भवति, न भोगफलेन युज्यते, आसक्तिपूर्वकभोगस्यैव भोक्तृत्वप्रयोजकत्वादिति भावः । ननु भोगे सत्यपि न भोक्ता तर्हि को भोक्तेत्याशङ्कायामाह 'तदितर' इति प्रकृतिगुणासक्तोऽशुद्धदृष्टिश्च 'इह' अस्मिन् संसारे भोक्ता कर्मफलभाग् विषयसुखानुभवकर्ता वा 'तत्स्वरूपानुरक्तः' भोक्तृस्वरूपानुरक्तस्तस्य भोक्तुः स्वरूपं प्रकृतिगुणासक्तत्वमशुद्धदृष्टित्वं च तेनानुरक्तो लिप्तो विषयेषु प्रीतिमाननात्मज्ञ इत्यर्थः, अथवा तत्स्वरूपानुरक्तोऽर्थात् प्रकृतिगुणानां यत्स्वरूपं शब्दादिकं तत्रानुरक्त आसक्त अत एव तदितरस्तस्मात् पूर्वोक्तात् प्रकृतिगुणविरक्तात् शुद्धदृष्टश्चेतरो भिन्नः । अयं भावः -

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122