Book Title: Adhyatmabindu
Author(s): Bhavyadarshanvijay
Publisher: Padmvijay Ganivar Jain Granthmala Trust
View full book text
________________
५८
अध्यात्मबिन्दुः
[ द्वितीया
नैव ‘खिद्यसे' श्राम्यसि दुःखमनुभवसि किं न विरमसीति । इदमत्र बोध्यम् - मूढता हि महानर्थकारिणी यतोऽपकारो, मूढस्तत्रैव हितबुद्ध्या प्रवर्तते ततश्च पुनर्दुःखमनुभवति, तस्मान्मूढतां विहाय विभावरतिं परिहरेति सुहृद्भूत्वा पाठकवर्यारुपदिशन्तीति ॥ २९॥ अथ देहे स्वत्वाभिमानं बन्धनं तन्नाशोपायं चोपदर्शयति - वपुष्यहंधीनिगडेन कामं, चिराय बद्धोऽसि महानुभाव ! बोधस्वरूपोऽयमहं न देहीत्यवेत्य तं चिद्भुघणेन भधि ॥३०॥
पद्मप्रभा० ‘वपुष्यह' मित्यादि, वपुषि - शरीरे 'अहं धी' आत्मबुद्धिस्तदेव निगडं - शृङ्खलं बन्धननिबन्धनत्वात्तेन कृत्वा' कामं' बाढं 'चिराय' चिरकालादनन्तकालाद् 'बद्धोऽसि ' - निगडितोऽसि त्वमत एव शृङ्खलाबद्धनर इव किमपि स्वातन्त्र्येण प्रवृत्ति कर्तुमसमर्थोऽसीत्याशयः । 'महानुभाव !' इत्यामन्त्रणे, महान् - उत्कृष्टफलसाधकत्वात् 'अनुभावः 'परिणामो दर्शनाद्यात्मको यस्य स महानुभावो मुमुक्षुरित्यर्थस्तं प्रति सम्बोधनम् । ननु कस्तर्हि तादृशनिगडभङ्गोपाय इति चेत्तत्राह - 'बोधस्वरूपो 'इत्यादि, बोधस्वरूपः - शुद्धचिदात्मकः 'अयमहं' एषोऽहमितिबुद्धिविषयः - स्वसंवेदनप्रत्यक्षोपलभ्यमानत्वादात्मा' न देही' न देहवान् - न देहस्वामी परस्य परस्वामिकत्त्वस्यौपचारिकत्वादुपचारहेत्वभावे उपरिचारस्याप्यभावात् । देहस्वामित्वं ह्यात्मनो देहे स्वत्वाभिमाननिमित्तकमौपचारिकं तादृशनिमित्ताभावे तथोपचारस्याप्यभावादिति भावः । इत्येवं रूपेण 'अवेत्य' - विज्ञाय तं - तादृशनिगडं' भङ्ग्ध' इति परेणान्वयः, केनेत्याह - चिद् - विज्ञानं बोधस्वरूपोऽहं न देहीत्यादि प्रकारो यो द्रुघणः घनस्तेन भङ्ग्धि त्रोटयेति । अर्थात् बोधस्वरूपोऽहं न देहीत्येवंबुद्ध्या देहे स्वत्वाभिमानं परिहरेति ॥३०॥
-
देहे स्वत्वाभिमानिनामात्मनो बोधे सति निर्वेदमाह -
-
नाहं वपुष्मान् न च मे वपुर्वा, बोधोऽहमस्मि प्रकृतेर्विभिन्नः । इयाननेहा न मया व्यभावि - गच्छन्नहो मोहविडम्बितेन ॥ ३१ ॥
पद्मप्रभा० ‘नाह'मित्यादि, 'न' नहि 'अहं' शुद्धस्वरूप आत्मा 'वपुष्मान्' वपुरस्त्यस्येति स देही देहधारीत्यर्थः । अत एव 'न च' नैव 'मे' मम मत्स्वामिकमिति यावत् 'वपुः' शरीरं 'वा' समुच्चये । अयं भावः पुरुषस्य राज्ञा सम्बन्धे सति राज्ञः पुरुषे स्वामित्वं सम्बन्धाभावे तु उदासीने न तथा । तथैवात्र यदि आत्मनि न देहसम्बन्धस्तदा
T

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122